________________
॥ अथ दौःशील्ये श्रीकान्ताकथा ॥
चन्द्रप्रमस्वामि
द्वितीया परिच्छेदः
चरित्रम्
॥३३०॥
दौःशील्ये श्रीकान्ताकथा।
स्त्रियः परनरत्यागोऽन्यस्त्रीत्यागो नरस्य तु । अगारिणामिदं शीलं, भवेदुःशीलताऽन्यथा ॥१॥ सर्वथा शीलविध्वंसान्मानग्लानिर्भवेदिह । परत्र नरकावाप्तिः, श्रीकान्ताया इव ध्र वम् ॥ २॥ अस्तीह भरतक्षेत्रे, लक्ष्मीवासेति पूर्वरा । नित्यं वसन्त्या लक्षम्याऽत्र, चक्र यन्नाम सार्थकम् ॥ ३ ॥ तत्राऽभूच्छीपती राजा, यत्पादस्थाम्बुजस्थितेः। श्रियः प्रसादनायेव, यं नेमुभूस्पृशोऽरयः॥४॥ तत्र धर्मधनोपायव्यवसायकृतोद्यमः। वणिगस्ति कुमाराख्यः, श्रीकान्ताऽस्याऽस्ति गेहिनी ॥५॥ द्रव्येण गौरवं लोके, द्रव्येण ख्याप्यते कुलम् । द्रव्येण मित्रसम्पत्तिधर्मो द्रव्येण गेहिनाम् ॥ ६॥ इति तदर्जनाहेतोः, कुमारः सार्थसंयुतः। ययौ देशान्तरं तत्र, स्थितः स द्रव्यमर्जति ॥ ७ ॥ यथेष्टद्रव्यसम्पूत्तौं, चचाल स्वपुरं प्रति । आगच्छन् स ददर्शकं, वृद्धमायान्तमध्वनि ॥ ८॥ जोच्चक्रे ऽथ कुमारोऽपि, ज्यायांसं वाकेन तम् । पृच्छद्यथान्वहं तस्मादुपदेशान् स्वबुद्धये ॥ ६ ॥ एवं च तौ सहायान्ती, मार्गोत्थप्रतिबन्धतः । पितृपुत्रममत्वेन, गृहीतौ क्रमशो मिथः ॥१०॥ लक्ष्मीवासपुरासन्ने, ग्रामे वृद्धो वसत्यसौ । सम्भाष्य स्वं व्रजन् ग्राम, कुमारेणान्वयुज्यत ॥ ११ ॥ पितः ! कथय मे बुद्धि, सर्वापायापकारिणीम् । ततः स प्राह वत्स ! त्वं, शृणु ते किं न कथ्यते ॥ १२ ॥
| ॥३३०॥