SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ प्रथमः परिच्छेदः सत्त्वेऽजापुत्रकथा शाखामृगमकराभ्यां, पुम्भ्यां सममजासुतः । पुरीं प्रति व्रजन्नेष, वापीमेकां ददर्श च ॥ ३०६ ॥ तस्याश्च परितः स्वर्णविमानानि बहून्यथ । कुर्वतीर्जलकेलिं च, तत्रान्तर्युवतीः कति ॥ ३१ ॥ परस्परं च व्याहारमेतासामशृणोदिति । उत्सूरो नो भवत्येष, गन्तुमष्टापदे गिरौ ॥ ३११ ॥ इन्द्रोऽपि हि सहेन्द्राण्याथायातो भविताधुना । इत्युक्त्वा ता विमानान्याजग्मुहेस्तधृताम्बुजाः ॥ ३१२ ॥ अजापुत्रस्तरोर्मूले, तिरोभूयातिनिश्चलः । अपरौ च तथा कृत्वा, स्वचेतस्यकरोदिति ॥ ३१३ ॥ मत्यलोको मया दृष्टो, दृष्टास्ते नरका अपि । वैमानिकसुरान् द्रष्टुं, गाढमुत्कण्ठते मनः ।। ३१४ ॥ एतावत्रैव मुक्त्वा तत् , समं हारजलादिभिः । व्यन्तरार्पितगुटिकाप्रभावाद् भृङ्गरूपकृत् ॥ ३१५ ॥ बजाम्यष्टापदेऽप्याभिधृ ताम्बुजकृतस्थितिः । इत्यालोच्य तयोः पुंसोस्तत्स्वरूपं समादिशत् ॥ ३१६ ॥ युग्मम् ।। अनुज्ञातस्ततस्ताभ्यां, भ्रमरीभृय सत्वरम् । इतस्ततः परिभ्राम्यन्, युवत्यात्ताम्बुजेष्वगात ॥३१७।। विद्याधर्यश्च ता वीक्ष्य, गुञ्जन्तं भ्रमर कलम् । अत्रत्रहि कमले, तमित्याह्वानयन्ति च ॥ ३१८ ॥ शीघ्रमारुह्य ताः सर्वा, विमानं हि निजं निजम । क्षणादष्टापदं जग्मुालयन्त्यः शिलीमुखम् ॥ ३१ ॥ उत्तीर्य ता विमानेभ्यः, पाणी प्रक्षाल्य पाथसा । त्रिश्च प्रदक्षिणीकृत्योचार्य नैषेधकीः स्फुटम् ।। ३२० ॥ प्रविश्याऽन्त ताङ्गयस्ताः, कियद्भिः कमलैस्ततः । तत्रागमनतो धन्यंमन्या निर्मलचेतसः॥३२१ ॥ यथामानान् यथावर्णान् , सिंहनिषद्यया स्थितान् । ॥२६॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy