SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ प्रथमः परिच्छेदः चन्द्रप्रमस्वामि चरित्रम् सत्त्वेऽजापुत्रकथा ततश्च वाद्यमानेषु, पश्चशब्देषु निर्भरम् । पठत्सु द्विजवृन्देपुच्चार्यमाणे जयध्वनौ ॥ २६५ ॥ 'दत्ताशीर्वादपौरस्त्रीवस्त्रान्तः कृतवीजनः। कृतशोभा पुरीं पश्यन् , स्वसौधं प्राविशन् नृपः॥ २६६ ।। युग्मम् ।। महोत्सवविधानेन, कृतमङ्गलकौतुकः । पूर्ववन्नृपतिश्चक्रे, स्वसाम्राज्यमखण्डितम् ।। २६७ ॥ मकरनरयुक्तोऽयमजापुत्रश्च तत्र सः । आत्मवद्भभुजा दृष्टो, दिनान्यस्थात् कियन्त्यपि ॥ २६८ ॥ अजासूनुस्ततो मुक्तं, तत्रैकाकिनमेव तम् । शाखामृगनरं स्मृत्वा, यास्यामीत्याह भूपतिम् ॥ २६६ ॥ राज्ञश्च प्राणदानेन, प्राणेभ्योऽपि स वल्लभः । निशम्य तद्वचो राजा, नास्मै प्रत्युत्तरं ददौ ॥ ३०० ।। अजापुत्रस्तु भूयोऽपि, प्राह सप्रश्रयं नृपम् । इयत्कालं स्थितोऽस्म्यत्र, तन्मां विसजेयाधुना ॥ ३०१ ।। आग्रहादेवमुक्तस्तु, स राजा तं व्यसयत् । ददतो भूपतेस्त्वेष, नागृह्णाद्वसु किश्चन ॥ ३०२ ।। गृहीततत्सरोनीरो, मकरनरसंयुतः। तेनैव विवरेणैष, समागाद्यक्षवेश्म तत् ॥ ३०३ ॥ गतेऽजातनये दध्यौ, विनिद्रो मर्कट: पुमान् । क्वागात्स्वामीति भुक्त्वाऽत्र, मुहुः फलान्यशेत सः ॥ ३०४ ॥ ततोऽजासूस्तमैक्षिष्ट, तथैव किल शायिनम् । शाखामृगनरं निद्रावशेनाज्ञाततद्गतिम् ॥ ३०५॥ हसन्नुत्थाप्य तं गाढनिद्रारसवशाकुलम् । तदा सुप्तोत्थित इव, स प्रोवाच ससम्भ्रम् ॥ ३०६ ॥ उत्तिष्ठोत्तिष्ठ यामो हि, पुरीमतिदवीयसीम् । तृतीयश्च सहायोऽयं, बभूव सहगामुकः ॥ ३०७॥ क्षणमात्रं सुप्त इव, विजृम्भिकाभृताननः । उत्थाय सोऽभवन्मार्गे, चलतेति क्चोवदन ॥ ३०८॥ ॥२५॥ K॥२५॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy