________________
द्वितीया परिच्छेदः
वन्द्रप्रमस्वामि चरित्रम् ॥३२८॥
शीले मन्त्रिपुत्रीकथा।
लज्जमानः सभायाः स, सकुच्य श्वेव निययो । गत्वा च खेदमापना, सौधारम्भमकारयत ॥४७॥ आह्वत्सोऽथ कर्मकरान् , प्रातरुत्थाय नित्यशः । स्वयं तत्र स्थितः कर्मकारयन् प्रकरोति च ॥४८॥ अथ सा तत्प्रिया गेहोपयोगिवस्तुसश्चयान् । अभीक्ष्णमानाययन्ती, विद्वांसं निरवेदयत् ॥ ४६॥ अथ क्रमाद्धीयमानान् , श्लोकान् कृत्वा स नित्यशः । गच्छन्नृपास्पदं क्षुद्रे विपक्षरुपहस्यते ।। ५० ॥ अथयो दृष्टा यत्र सन्मानं न्यकारं तत्र पश्यति । श्वेव लेहनलुब्धो हि, स लोभी पुरुषाधमः॥५१॥ किश्चगृहव्यापारमनस्य, शास्त्रबुद्धिः प्रणश्यति । नीवीव विदुषामेषा, तभ्रशाद्वतनं कुतः१॥५२॥ अन्येद्यश्चिन्तयित्वैवं, स विद्वान् खिनमानसः । त्यक्त्वा भार्याधकार्षीधः, पलायते स जीवति ॥ ५३॥ ज्ञात्वाऽथ मन्त्रिणः पुच्या, कविं निश्चयतो गतम् । ततो विज्ञापितो मन्त्री, स तां स्वगृहमानयत् ॥ ५४ ।। आपूर्वान्त्यदिनारम्भाद्यदात्तं तेन काञ्चनम् । तत्सर्वमयन्ती साऽमात्यं चक्रऽतिहर्षितम् ॥ ५५ ॥ अन्येद्यजेल्पिता पित्रा, सत्योद्वहनहेतवे । सा प्राह न भवेत्तात !, पुनरुद्वहनं मम ।। ५६ ॥ मम तीर्थकरो भत् शब्दवाच्यम्तु नापरः । स्वर्णादिमण्डनेभ्योऽपि, चारु शीलं च मण्डनम् ।। ५७ ॥ इति युक्तिपरैर्वाक्यः, सम्बोध्य पितरं निजम । सुशीलं पालयत्येषा, तपःस्वाध्यायपोषितम् ॥ ५८।। अन्येचुस्तत्पुरक्ष्मापपुत्राश्चापल्यशालिनः । बभञ्जमूलतः पद्रदेवताया वनदुमान् ।। ५६ ॥ तद्दृष्ट्वा ज्वलिता कोषात्तृणानीव दवः पुरा । भस्मसादकरोत्तुणे, सापि तानपराधिनः ॥ ६॥
॥३२८॥