SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः चन्द्रप्रमस्वामि चरित्रम् ॥३२७॥ शीले मन्त्रिपुत्रीकथा। नाथेत्थं कुर्वतानेनामूल्यकाव्यानि नित्यशः। रञ्जितोऽस्मि ततः स्वामी, मत्पुत्र्याऽस्य प्रसीदतु ॥ ३३ ॥ अथोचे नृपतिमन्त्रिन् ।, युक्तमर्थ प्रभाषसे । विदुषी त्वत्सुता विद्वानेषोऽस्त्वर्थोऽयमीप्सितः ॥ ३४ ॥ पृष्टा ज्योतिर्विदः सर्वे, लग्न गोधूलिकं ददुः । तदेव सचिवः पुच्या, विद्वांसं पर्यणाययत् ॥ ३५ ॥ प्राह बद्धाजलिमन्त्री, विद्वन्नेषा तव प्रिया । गृहाणैनां गृहं गच्छ, त्वं क्षेमेण सहानया ।। ३६ ॥ गृहीत्वाथ स तामेकां, चिन्तामिव शरीरिणीम् । ययौ देवकुले कापि, प्रणामायेव सत्वरम् ।। ३७ ।। अथ देवं नमस्कृत्य, सोचे चलत वेश्मनि । सलज्जमृचे सोऽस्माकं, वेश्मेदं नान्यदस्ति हि ॥ ३८॥ अथ सा कुपितेवाह, कदाचित् खादको भवान् । यनित्यं लभमानोऽपि, स्वर्ण नाकारयद्गृहम् ॥ ३१ ॥ नाहं स्थास्यामि खल्वत्र, नटभण्डविटालये । द्विभूमं ननु मद्योग्य, सौधं कारय सत्वरम् ॥ ४०॥ अथ स प्राह नो तावत्सौधं निष्पद्यते क्षणात् । तिष्ठनां रात्रिमत्रैव, तत्प्रातः कारयिष्यते ॥ ४१ ॥ इत्थं सम्बोध्य तो जाग्रनिशि तस्थौ स चिन्तया । अथोत्थाय च राज्यन्तयामेऽगाच्छष्ठिनो गृहम् ॥ ४२ ॥ द्वारेऽतिष्ठत्तावद्यावदुत्तस्थौ श्रेष्ठिपुङ्गवः । क्रीतं च श्रेष्ठिनस्तस्मात्तेन वेश्मतलं धनैः ॥४३॥ तदैव स कटान् क्रीत्वासितुं स्थानमकारयत् । ततो देवकुलान्मन्त्रिपुत्रीं तत्र समानयत् ।। ४४ ॥ व्यग्रत्वात्पूर्वसङ्ख्या श्लोकान् कृत्वा ययौ नृपम् । स्खलन् पपाठ ताश्छन्दोऽलङ्कारैरपि दूषितान् ॥४५॥ अढ़ें दोषजुषाश्लोकास्त्वयाऽपठ्यन्त कोविद । । वन्नेवं ददौ पूर्वस्वर्णाद्धं सचिवः कवेः ॥ ४६॥ ॥३२७॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy