________________
वन्द्रप्रमवामि
द्वितीयः परिच्छेदा
बरित्रम्
।३२६॥
शीले मन्त्रिपुत्रीकथा।
अथान्यदा गृहं गृत्वा, सिंहासनमुपाविशत् । नाकार्षीढ़ोजनाद्यं स, केवलं भुवमैक्षत ॥ १६ ॥ अथैका तत्सुता लघ्वी, तदङ्कमुपविश्य सा । धृत्वा कूर्च च हस्ताभ्याममात्यमित्यभाषत ॥ २० ॥ तात ! जल्पत किं चिन्ता, युष्माकं दुखादायिनी । किं चुकोप नृपः ? किं वा, दुःसाधः कश्चिदस्ति वः १ ॥२१॥ स्मित्वाऽथ सचिवः प्राह, दुःसाधोऽरिभवेधदि । किं करोषि १ ततः साह, धीदा स्यां तस्य साधने ॥ २२॥ लघोरपि भवेबुद्धिः, सा यया जीयते जगत् । प्रत्युत्पन्नमतिः प्रायो, लघ्यपि स्त्री विशेषतः ॥ २३ ॥ इति ध्यात्वा ततो मन्त्री, पुरः पुत्र्यास्त्वचीकथत् । वृथैव गृह्णतः स्वर्ण, वृत्तान्तं तस्य धीमतः ॥ २४॥ अथोचे सा त्यक्त्वा चिन्ता, तात ! जेमत सम्प्रति । अथः साध्योऽसाध्यो वाऽयं, पश्चात्करिष्यते मया ॥२५॥ अमात्यः प्राह मद्वत्सा, मह्य चेत्कथयिष्यति । तत्साधनधियं नूनं, ततो भोक्ष्यामि नान्यथा ॥२६॥ साप्येवमब्रवीत्किश्चिन्न्यच्य स्वास्यं च लज्जया । तातालीकं सहानेन, मामुपयामयत्विति ॥ २७ ॥ कुचे पश्चात्तु तत्किञ्चिद्येन गृह्णाति नो नवम् । मुश्चत्यात्तं पुराद्याति, सोऽत्र तिष्ठाम्यहं पुनः ॥२८॥ तयेत्थमुदिते हृष्टः, प्राह मन्त्री भवत्विदम् । तदैव च तया सा मकार्षीभोजनं ततः ॥ २६ ॥ सर्वान् सङ्केत्य दैवज्ञान, द्वितीयेऽहयथ सत्वरम् । ययौ राजकुलं भूपं, नत्वा मन्त्री समाविशत् ॥ ३० ॥ . अथाकृष्ट इवापुण्यैः, स सुधीनृपमाययौ । पठित्वा तावतः श्लोकानासने सोऽप्युपाविशत् ॥३१॥ तुष्टेन भूभुजा हर्षान्मन्त्रिसम्मुखमीक्षिते । कृत्वाञ्जलिमुवाचार्य, प्रत्यक्षं सर्वसंसदः ॥ ३२ ॥
॥३२६॥