________________
चन्द्रप्रमस्वामि चरित्रम्
द्वितीय: परिच्छेद
॥३२४॥
शीले मन्त्रिपुत्रीकथा।
ग्लाने जनेऽपि सर्वस्यौषधदानादिधीर्भवेत् । ग्लाने साधौ तु किं वाच्यं १, किन्त्वस्याभून दानधीः ॥ ५१॥ गतो व्याघुट्य तौ साधू , धनदस्तु सदापि हि । कीत्तौ दाने च धर्म च, दत्ते नैव धनं क्वचित् ॥ ५२ ॥ उपायोपाज्य पापेन, सह वित्तस्य सञ्चयम् । कुर्वाणो धनदो मृत्वा, जातस्त्वमसि भो ! इति ॥ ५३ ॥ कुरङ्गस्तु निशम्यैवं, चिन्तयामास दुर्गतः । अहो ! पूर्वभवे धिग्मे, स्वात्माऽभूदानवर्जितः ॥ ५४ ॥ तद्भावादात्मनो मेऽभून्न कदाचित्सुखस्थितिः । दीनो हीनश्च सर्वत्र, भ्रमाम्यप्राप्तजीविकः ॥ ५५ ॥ पूर्वोपार्जितमेवात्र, भुज्यते तन मेऽभवत् । द्रव्याभावान्न दानेन, कर्त्तास्मीह शुभाजनम् ॥ ५६ ॥ तद्गृह्णामि व्रतं येन, स्यादुष्कर्म क्षितिमम । ध्यात्वेति व्रतमादाय, तपस्तेपे स सर्वदम् ॥ ५७ ॥
॥ इत्यदाने कुरङ्गकथा॥
॥ अथ शीले मन्त्रिपुत्रीकथा ॥ शीलं मन्त्रः स्वपरेषां, सर्वोपद्रवरक्षणे । आत्मनः कर्मकक्षाग्निरमात्यदुहितुर्यथा ॥ १ ॥ पुरं राजगृहं नाम, धाम धर्मनयश्रियाम् । अस्ति तीर्थकृतां हम्बधेयः साधुभिरावृतम् ॥ २ ॥ वैरिस्त्रीपत्रवल्लीभिः परिपुष्टासिधेनुकः । राजा तत्रास्ति भूपालशेखरश्चन्द्रशेखरः॥३॥ तस्यासीनीतिरीतिज्ञो, मन्त्री धात्रीप्रपोषकः । स्वामिभक्तश्च शक्तश्च, धार्मिको वसुसंज्ञकः ॥ ४ ॥
॥३२४॥