________________
चन्द्रप्रभस्वामि चरित्रम्
द्वितीयः परिच्छेदः
॥३२॥
अदाने
कुरङ्ग
कथा।
कियत्यपि गते मागें, ताभ्यामैक्षत केवली । सुरासुरसभायां स, विदधद्धर्मदेशनाम् ॥ ३७ ॥ कौतुकात्तावपि गतौ, तं नमश्चक्रतुसुदा । आसीनौ शुश्रुवाते च, दाने केवलिदेशनाम् ॥ ३८॥ पप्रच्छ धनदो ज्ञानिन् !, लाभो मे भविता न वा १ । ज्ञानी प्राह न धर्मस्य, भावी लाभोऽर्थलाभवत् ॥ ३६॥ श्रुत्वेति तो समुत्थाय, स्वग्राम प्रति चेलतुः । प्राप्तौ च क्रमशः क्षेमात , स्वं ग्रामं तौ दावृतौ ॥ ४०॥ ___इतश्च केचिदाचार्याः, साधुसिन्धुरबन्धुराः। तद्ग्रामासनमुद्यानमलश्चक्रुः सुशुद्धितः॥४१॥ देवादेकस्य तत्साधोः, कायोत्सर्गात्तपस्यतः । करेण केनचिद्दत्तः, प्रहारोऽङ्गे महात्मनः ॥ ४२ ॥ शरीरे निःस्पृहः साधुर्विषेहे तद्वथथामथ । क्रमेण प्रसृतो घातः, पाकेन कुथितोऽभवत् ।। ४३ ॥ अन्यदा श्रावकः कोऽपि, वैद्यः साधु ददर्श तम् । अहो ! साधोमहत्कष्टमित्यसौ खेदमासदत् ॥४४॥ सूरीनुपेत्य स प्राह, प्रभो ! वैद्यौऽस्म्युपासकः । परं दरिद्रस्तन्नास्ति, मद्वेष्मनि घृतौषधम् ॥ ४५ ॥ घृतमत्र दुरापं च, तदस्ति धनदौकसि । याचयित्वा भवन्तश्चेदानाययन्त्यहं ततः ॥ ४६ ॥ घृतमिश्रौषधैः सम्यक् , चिकित्सामि तपस्विनम् । रक्षणीयं शरीरं यत् , सत्यस्मिन् वर्धते तपः॥४७॥ साधोश्चिकित्सया पुण्यं, ममापि स्यादभीष्टकृत् । इत्युक्ताः सूरयस्तेन, प्रेषयन्ति मुनिद्वयम् ॥४८॥ आदेशेन गुरोर्गत्वा, तौ मुनी धनदं प्रति । ग्लानवृत्तान्तमाख्यायौषधायायाचतां घृतम् ॥४६॥ कार्पण्याद्गतदाक्षिण्यभावनादाननिष्ठुरः । स मुनी प्रत्यभाषिष्ट, घृतं नैवास्ति यात तत् ॥ ५० ॥