________________
चन्द्रप्रमस्वामि चरित्रम्
द्वितीयः | परिच्छेदः
॥३२२॥
अदाने
कथा।
रन्धन्या च ततो यो हि, घृतक्रीतः स वेश्मनः । मध्येऽथ भोजितो भक्त्याऽपरस्त्वनादराबहिः॥ २३॥ : बहिरन्तः किमावां हि, प्रतिपत्तिविभेदतः। भोजितावनयेत्यादिचिन्तयन्तौ गतौ पुरे ॥ २४ ॥ एकेन च घृतं क्रीतं, चान्येन यदृच्छया । पश्चाद्वयाववृताते तो, पृथक् चिन्ताकुलौ ततः॥ २५ ॥ तस्मिन्नाजग्मतुर्गामे, भूयोऽपि वरकोऽपितः । तस्यास्तु वृद्धरन्धन्या, तया निष्पाद्य तौ ततः ॥ २६ ॥ यः पुरान्तगृह भक्त्या, भोजितस्तं बहीकतम् । मध्ये कृत्य द्वितीयं तु, भोजयामास रन्धनी ॥ २७ ॥ ततस्तौ विस्मयापन्नौ, पप्रच्छतुर्मियोऽपि ताम् । मातविभेदः कोऽयं नौ, गत्यागत्योः कृतस्त्वया १॥ २८ ॥ अथ सा प्राह वृद्धस्त्री, वत्सौ ! शृणुतमादरात् । यः पूर्व हि घृतक्रीती, तस्य चेतस्यभूदिति ॥ २६॥ घृताय यत्र यास्यामि, स्युर्गावस्तत्र चेदृढाः । तदा सम्पद्यते शीघ्र' समर्थे च घृतं भवेत् ॥ ३० ॥ इत्यभिप्रायशुद्धस्त्वं, गच्छन्नासीः पुरा ततः । शुभां चिन्तां मया ज्ञात्वा, प्रतिपत्तिः कृता तव ॥ ३१ ॥ यश्चर्मग्राहकस्तस्य, चित्तेऽभूत् कल्मषं त्विदम् । गच्छन् यत्रास्मि चेत्तत्र, विपद्यन्ते चतुष्पदाः ॥ ३२ ।। ततः सम्पद्यते चम, समर्थ प्रचुरं च तत् । इति चिन्ताभवज्जीवहिंसापापो मया ततः ॥ ३३ ॥ चण्डालवदहिगेंहागोजितः करमानसः। न पाप्मभिगृह स्पर्शयितव्यं निजमुत्तमः ।। ३४ ॥ इदानीं युवयोतिश्चित्तचिन्ताविपर्ययः। ततो मयाऽपि चक्र वां, प्रतिपत्तिविपर्ययः ॥ ३५ ॥ इति तस्या वचः श्रुत्वा, दृष्ट्वा स्वस्मिश्च तक्रियाम् । पण्येन सह मार्गे तो, चेलतुः शीघ्रगामिनौ ॥ ३६ ।।
|॥३२२॥