________________
II
द्वितीय
चन्द्रप्रमस्वामि चरित्रम्
परिच्छेदा
॥३२०॥
| अदाने कुरङ्गकथा।
दानेनावाप्तसाम्राज्यभोगः प्रत्ययितो हृदि । तपश्चारित्रपात्रेषु, दानं श्रद्धापरो ददौ ॥ २० ॥ क्रमेण गुरुसामग्रीमासाद्यासादितव्रतः । पञ्चषैश्च भवर्मोक्षं, तज्जीवो लप्स्यते ध्रुवम् ॥ २१ ॥ ऐहिकामुष्मिकसुखलालसैस्तत् सदापि हि । देयं दानं सुपात्रेषु, तद्धि सर्वेष्टसिद्धिकृत् ॥ २२ ॥
॥ इति दाने कामकेतुकथा ॥
॥ अथ अदाने कुरङ्गकथा॥ यस्तु दद्यान्न पात्रेऽपि, दानं सत्यपि वस्तुनि । स किं समीहते भोगान् , दानप्राप्यान् भवोचितान् ॥१॥ यन्न सम्पद्यते सम्पत् , सांसारिकसुखं न यत् । पूर्वे जन्मनि तदानं, दत्तं पात्रेऽपि नाङ्गिभिः ॥२॥ पूर्व जन्मन्यदातारो, याचितारः स्युरत्र ते । दीना हीनाश्च ते माः , सहन्ते हि पराभवम् ॥ ३ ॥ कृतं हि दुष्कृतं दानाच्छाम्यतीव जलाद्रजः । पापी दानं न दने चेत्तद्यात्यधः कुरङ्गवत ॥४॥ अस्त्यास्तिकजनस्वान्तासीनश्रद्धारिरंसया । गुप्तांगतसदाधर्मा, सुशर्मा नाम पूर्वरा ।। ५ ॥ गीर्वक्तृत्वकवित्वाभ्यां, श्री नभोगभागतः । सफला यस्य सोऽस्तीह, राजा मृगाङ्कमण्डनः ॥ ६ ॥ तत्र चाढयकुलोत्पन्नः, कुरङ्गाख्यो वणिक्सुतः । अस्ति कर्मविपाकेन, दारिद्रयोपतः सदा ।। ७॥ पितृव्या भ्रातरस्तस्य, ज्ञातयोऽपि महद्धिकाः। पुण्योपाचां श्रियं दानभोगाभ्यामुपभुञ्जते ॥ ८ ॥
॥३२०॥