________________
चन्द्रप्रभस्वामि
चरित्रम्
॥३१६॥
कान्तारमध्ये चेल्लप्स्ये, तदा भोक्ष्यामि नान्यथा । तत्पर्यन्तं करिष्यामि, कायोत्सर्गं सुनिश्चलः ॥ ६ ॥ इत्यभिग्रहयुक्तस्य, मासक्षपणपश्चकम् । बभूत्र तन्नमस्कत्तुं युक्तोऽयं युवयोर्मुनिः ॥ ७ ॥ कामकेतुरिति श्रुत्वा, किमेतदिति सम्भ्रमी । काञ्चनप्रभया प्रोचे, नाथ! जानाम्यहं ह्यदः ॥ ८ ॥ महात्माऽत्र मुनिः कोऽपि, विहिताभिग्रहोऽस्ति तत् । कथितो व्यन्तरेणाऽतः, पाथेयैः प्रतिलभ्यते ॥ ६ ॥ कामकेतुस्तयेत्युक्तः, स्थाने तत्र विमुच्य ताम् । वने भ्राम्यन्मुनिं कायोत्सर्गस्थितं ददर्श सः ॥ १० ॥ त्रिव प्रदक्षिणीकृत्य, प्रणनाम शुभाशयः । ऊचे च प्रासुकान्नं मे गृहाणानुगृहाण माम् ॥ ११ ॥ शरीरधारणाहेतुप्रासुकान्नजिघृक्षया । मुनिर्जगाम यत्रास्ते, तत्प्रिया काञ्चनप्रभा ॥ १२ ॥ तया तेन च भावेन, ढौकिते शम्बले निजे । कल्पनीयमिति ज्ञात्वा, जगृहे मुनिपुङ्गवः ॥ १३ ॥ अहो ! दानमहो ! दानमहो ! पुण्योदयोऽनयोः । इत्युक्त्वा व्यन्तरोऽभाणीवृणीष्वैकं वरं नर ! ॥ १४ ॥ कामकेतुः स्वभावेन, महावाञ्छो ययाच तम् । स्थानेऽत्रैव नवं कृत्वा, प्राज्यं राज्यं हि देहि मे ॥ १५ ॥ तुष्टेन व्यन्तरेणाथ, चक्र तत्र नवा पुरी । हस्त्यश्वलोकरम्यायां, तस्यां सैष कृतो नृपः ॥ १६ ॥ काञ्चनप्रभया युक्तः, कामकेतुः प्रभाववान् । राज्यं व्यन्तरसाहाय्यात्, देशे तत्र चकार सः ॥ १७ ॥ विक्रमात्तेन सर्वेऽपि राजानोऽन्ये वशीकृताः । स्फीतं समृद्धं स्वं लोकं, रक्षता ववृधे स्वयम् ॥ आनाय्य स्वजनाः स्वाग्रे, सन्मानात्तेन चक्रिरे । स्वराज्यसौख्यदायादाः, सतामाचरणं ह्यदः ॥
१८॥
१६ ॥
द्वितीयः परिच्छेदः
दाने कामकेतुकथा |
॥ ३१६॥