SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि द्वितीयः परिच्छेद चरित्रम् ॥३१४॥ अथेयान् लाभवृत्तान्तोऽषडक्षीणो बभूव यत् । तनिश्चितमुपरोधदानस्यैतद्विजम्भितम् ॥ ३३॥ इति प्रत्ययितो दानप्रभावे स तपस्विनाम् । मुश्चन् मिथ्यात्वभावं च, सदा दानपरोऽभवत् ॥ ३४॥ अथान्येधुस्तन्नगरस्वामिनः पृथिवीपतेः । अकस्मादतिपीडाकृत , कुक्षौ शूलमजायत ।। ३५॥ तेनाथ पिडिते राज्ञि, विफलेषु भिषक्षु च । तत्पीडापीडितो मन्त्रीतिडिण्डिममवादयत् ।। ३६ ॥ औषधान्मन्त्रतो वा यो, राज्ञः शूलं न्यवर्तयेत् । तदस्य दास्यते नूनं, यदसौ याचयिष्यति ॥ ३७॥ अथासौ सुन्दरस्तत्तद्रत्नमाहात्म्यवेदकः । अस्पृक्षड्डिण्डिमं सर्वलोकप्रत्यक्षमात्मना ॥ ३८ ॥ परिधायाथ शूलस्य छेदिरत्नाङ्कमुद्रिकाम् । गत्वा भूपं मुद्रागुल्यालोड्य पाथस्त्वपाययत् ॥ ३६॥ मूलादुन्मूलिते शूले, पीतेन तेन पाथसा । याचस्व स्वेप्सितं श्रेष्ठिन्नित्युवाच महीपतिः ॥ ४० ॥ अथायं सुन्दरोऽवादीत, किं न लब्धं मया विभो !? । यन्नाथस्य न्यवतिष्ट, शूलं मुलाद्वयथाकरम् ॥ ४१॥ तस्योक्त्या नृपतिस्तुष्टः, कर्पटौचित्यपूर्वकम् । हस्तपृष्टिकया तस्मै, मूलश्रेष्ठिपदं ददौ ॥४२॥ उडूनामिव शीतांशुः, स मुख्यो वणिजां भवन् । पालयामास श्रेष्ठित्वं, संवत्सरान् बहूनपि ॥ ४३ ।। अथ सज्जातवैराग्यः, पुत्रं न्यस्य निजे पदे । मुक्तिसखीमिव श्रेष्ठी, प्रव्रज्यामग्रहीत्ततः ॥ ४४॥ तप्यमानस्तपरतीव्र, सहमानः परीषहान् । श्रद्दधानो जिनोक्तीश्चानुग्रामं विचरत्यसौ ॥४५॥ अन्येधुरायुषः पूर्तः, प्रस्मरन् परमेष्ठिनाम् । शुभभावनया मृत्वा, सुन्दरः स ययौ दिवम् ।। ४६ ॥ कामकेतु| कथान्तर्गता उपरोधदाने सुन्दरकथा। ||३१४॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy