________________
चन्द्रप्रभस्वामि चरित्रम्
द्वितीयः | परिच्छेदः
॥३१२॥
प्राप्तगतेभ्यो द्रव्येभ्यस्तेषामप्रापणिवरम् । तद्र्वाधाचनं यत्तत् , कर्मापि कुरुते न यत् ॥ ५॥ न च मे वेश्मनि द्रव्यं, येन स्याद्भोजनादिकम् । कुटुम्बे च लघुः साथैः, का गतिधिग् दरिद्रताम् ॥ ६॥ किश्चात्र भूरि स्वजने विनार्थः स्युः पराभवाः । यामो देशान्तरं किश्चिद्धयात्वैवं प्रचचाल सः ॥ ७ ॥ मार्गोचितपाथेयस्य, सकुटुम्बस्य गच्छतः । अध्वन्यल्पजनस्तस्य, सार्थः कश्चिदथामिलत ॥८॥ अथान्यदा द्विप्रहरे, दिने सार्थेन तेन च । सरस्यां भोजनायोपक्रान्ते कोप्यब्रवीदिदम ॥४॥ भो । भोश्चापः शुभः सोऽयमिदं च दृश्यते शुभम् । उद्यानादेति यप्साधुर्भिक्षार्थ कुत्रचिवजन ॥१०॥ अथायाते मुनी धन्यम्मन्यास्ते सार्थिनो जनाः । उत्थायोत्थाय नत्वाऽस्म, भिक्षा स्वस्वेच्छया ददुः ॥११॥ सुन्दरः सोपि मिथ्यागप्येषामुपरोधतः । विनापि भावनां किश्चिददौ भिक्षा तपस्विने ॥ १२॥ साधौ गतेऽथ ते सर्वे, भुक्त्वा स्वस्थानमभ्यगुः । सकुटुम्बः सुन्दरस्तु, नगरान्तरमागमत् ।। १३ ॥ अथ तत्र गतस्याऽस्याऽपरिचितोऽप्यभूज्जनः । सौदर्य इव किं वा नो, भवेदानप्रभावतः ॥१४॥ तेनाथ मण्डिते हट्टे, वणिजामापणाः परे । व्यवहारैः सञ्चुकुचुः, पद्मानीव विधुदये ॥ १५॥ अन्येद्यापणाद्गेहं, सुन्दरस्यागतस्य तु । हिमैवल्लीव विच्छाया, यशोमती घचीकथत् ॥ १६ ॥ श्रेष्ठिन् ! येन क्रमायातभक्तेनेव पदातिना । नाध्वन्यमोचि त्वत्पाव, यश्च प्राणसमो मम ॥ १७ ॥ कृतज्ञो मौक्तिको नाम, श्वानः पञ्चत्वमाप सः । तदद्य युज्यते नात्तु, पुत्रत्वेन मतो हि सः॥१८॥
कामकेतुकथान्तर्गता उपरोधदाने सुन्दरकथा।
॥३१२॥