________________
द्वितीयः परिच्छेदः
चरित्रम
तन्मुनेदर्शनाद्दोषो; न्यवतिष्ट च किश्चन । यथाऽरुणोदये ध्वान्तं, पाप्मेवाज्ञानकष्टतः ॥ ४५ ॥ प्रभावं तं मुनेदृष्टाऽऽसनादुत्थाय सम्भ्रमात् । ववन्दे सुन्दरी साधु, हृष्टा सोमं जगाद च ॥ ४६॥ वत्स ! गच्छान्तिकं साधोर्दानं यच्छ यदृच्छया । मूलाद्गच्छेद्यथा दोषो, दानान्मन्त्राद्विषं यथा ॥४७॥ अवज्ञाते वचस्यस्मिस्तेनाथ कुपिताह सा । नास्मै दास्यसि चेदान, दोषस्त्वा तद्ग्रहीष्यति ॥ ४८ ॥ इत्थं स भीषितो मात्रा, ददौ दानं च साधवे । अगाच्च मूलतो दोषोऽहो ! प्रभावस्तपस्विनाम् ? ॥ ४६॥ सच्छायो दोषमुक्तोऽभूदभ्रमुक्तो यथा रविः । दानप्रभावतः सोमः, पूर्ववत्सुखमेधते ॥ ५० ॥ इत्थं भियापि दत्तं दानं सोमस्य सौख्यदं श्रुत्वा । दद्यात् सदैव दानं नाशो नैवास्ति दत्तस्य ॥ ५१ ॥
॥इति भयदाने सोमकथा ।
कामकेतुकथान्तर्गता उपरोधदाने सुन्दरकथा।
॥अथ उपरोधदाने सुन्दरकथा । अस्त्युज्जयिनी जयिनी, नानाऋद्धयाऽलकापुरः । धर्मकामार्थमोक्षाणां, भूर्वेदानां विधिर्यथा ॥ १ ॥ भानुव्योम्नीव सत्तेजा, राजा तत्रास्ति विक्रमः । यस्योदये द्विषद्धृका, जग्मुर्भू धरकन्दराः ॥ २॥ तत्र चाट्यवरो मिथ्यादृष्टिः श्रेष्ठयस्ति सुन्दाः । यशोमतीति तद्भार्या, तत्पुत्रः प्रियवर्द्धनः॥ ३ ॥ वर्षारम्भे तरङ्गिण्याः , पूरे इव गते धने । अन्येधुश्चिन्तयामास, खिन्नश्चेतसि सुन्दरः ॥ ४॥
॥३११॥