________________
चन्द्रप्रमस्वामि चरित्रम्
द्वितीय परिच्छेदः
॥३१०॥
कामकेतुकथान्तर्गता | भयदाने सोमकथा।
द्राग् मुञ्चाधस्तनं वासः, स्वकेशान् मुत्कलीकुरु । ऊर्ध्वबाहुस्तथा नृत्यन् , भक्ष्वैतान् कलशानपि ॥ ३१॥ इत्थं कृत्रिमग्राहिल्यं, स्वस्य स्वीकृत्य सत्वरम् । उद्दण्डं दण्डमुद्यम्य, धाव धाव च मामनु ॥३२॥ युग्मम् ॥ ततः पितृवचः सोमः, प्रतिपद्य यथोदितम् । भूतग्रस्त इवोत्थायाधावीदाशु धनं प्रति ।। ३३ ॥ अग्रतो नश्यता पित्रा, प्रोचिरे ते पदातयः । भो ! भोस्वायध्वमस्मान्मां, भूतग्रस्तात्प्रणिध्नतः॥ ३४ ॥ दृष्टा सोमं तथाभूतं, स्मित्वोचुस्ते परस्परम् । एनं ग्रहिलमानेतुमस्मान्मन्त्री समादिशत् ॥ ३५ ॥ स्याद्यादृक्तादृग्वास्माभिर्नेयोऽयं मन्त्रिसन्निधौ । इति विचिन्त्य पादातधृत्वाऽसावग्रतः कृतः ॥ ३६॥ परिष्वज्य जनान् नृत्यन् , क्षिपन् धूलीरितस्ततः । बलादानीय सोमस्तैः, सचिवाय समर्पितः ॥ ३७॥ मन्च्यपि प्रेक्ष्य तच्चेष्टां, ग्राहिल्यात् हास्यदायिनीम् । व्यसृजत्तं तथायोग्यं, न्यायं कृत्वेतरावपि ॥ ३८ ॥ अथ प्राप्य छलं सोमो, दोषेणाग्राहि सत्यतः । तत्प्रभावादसौ चेष्टा, विचित्रामकरोदिति ॥ ३६॥ कदाचिद्भजते नाग्न्यं, नेपथ्यं च कदाचन । कदाचिद्भाषते शून्यं, प्रशस्तं च कदाचन ॥४०॥ तं तथा च धनो दृष्ट्वा, शोकशङ्कुसमाकुलः । दध्यावित्यभवत् सत्यं, लभ्ययोग्यादृणेऽपतत् ।। ४१॥ उपयाचितं देवानां, मानयामास सुन्दरी । विना पुत्रं स्त्रियः प्रायः, प्राप्नुवन्ति पराभवम् ॥ ४२ ॥ यक्षायेरप्यनिवत्ये, दोषे पुत्रस्य पुष्यति । पीडं पीडमुरःप्रोच्चैः, सुन्दरी विललाप सा ।। ४३ ॥ अथानुगेहं पर्यटन , मृत्चों धर्म इव व्रती। तस्य पुण्यरिवाकृष्टो, भिक्षार्थ तद्गृहं ययौ ॥४४॥
K
॥३१॥