SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि द्वितीयः परिच्छेदः चरित्रम् ॥३०॥ KO कामकेतुकथान्तर्गता भयदाने सोमकथा। इत्युक्त्वाऽऽशु धनः सार्धं, सोमेन श्रेष्ठिसनिधौ । गत्वा कृत्वा च भ्र भङ्गमुच्चावचमुवाच तम् ।। १७ ॥ हुँ हुँ बुद्धथाऽनया पूर्ण, सर्वलोकप्रसिद्धया। गृहाणैना यथावस्था, द्रम्मानस्माकमय ॥१८॥ अथोचे श्रेष्ठयपि प्रेचा, दत्ता दत्तापि नो मया । किन्तु नैषा प्रयोक्तव्येत्याज्ञाप्य धनमार्पयत् ॥ १६ ॥ गृहीत्वा श्रेष्ठिनो द्रव्यं, मांसं व्याघ्रमुखादिन । मा भूयोऽपीति पुत्रं स्वं, शिक्षयन् स धनो ययौ ॥ २० ॥ अन्यदाऽट्ट ब्रजन् सोमो, युध्यमानो पदातिको । दृष्टा तत्रैव सोऽतिष्ठद्राजाज्ञाभङ्गभीतितः॥२१॥ विना सोमं जनो नान्यः, समीपमगमत्तयोः । ग्रीष्मोष्मदुस्सहं वह्नि, को वाऽऽलिङ्गितुमिच्छति ॥ २२ ॥ ततो दण्डाधिपो वीक्ष्य, तो निघ्नन्तौ परस्परम् । निनाय मन्त्रिणः पाश्व, सूनायामिव वोत्कटौ ॥२३॥ अथ तौ मन्त्र्यपि प्रेक्ष्य, भ्रकुटीभङ्गभीषणः । किमर्थं युवयोः पत्ती !, कलहोत्राब्रवीदिति ? ॥२४॥ इत्युक्ते मन्त्रिणा तेन, पाहेको विहिताञ्जलिः। विना कार्यमिषादेषोऽहन्मां गच्छन्तमध्वनि ॥ २५ ॥ अथोचेऽन्योऽपि नो मन्त्रिन, प्रागेनमहमाहनम् । किन्तु मामयमित्यर्थे, साची सोमो वणिकसुतः॥२६॥ एताभ्यामिति विज्ञप्ते, मन्त्री न्यायपरीक्षकः । सोमस्याकारणायाथ, प्राहिणोत् स्वपदातिकान् ॥ २७ ॥ यमदूतानिव प्रेक्ष्यागच्छतस्तान् गृहानमि । सोमोऽप्यकथयत् पित्रे, वृत्तान्तं कलहस्य तम् ॥ २८ ॥ तच्छ वाऽथ धनस्तस्मिन् , गतान्योपायविह्वलः। तमेव श्रेष्ठिनं गत्वाऽपृच्छद्वित्तः स तद्धियम् ॥ २६ ॥ द्रव्यमादाय स श्रेष्ठी, प्राह गत्वा सुतं कुरु । अहिलमिति स श्रुत्वा, गृहं गत्वाऽवदत् सुतम् ॥ ३० ॥ ॥३०॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy