SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् द्वितीय: परिच्छेदः ॥३०८॥ भयदाने सोमकथा। स तत्रास्ति नृपो वैरिसमुद्रागस्तिराख्यया । मीनकेतुरिति स्फीतो, नीत्यैव पाति च प्रजाः॥३॥ तत्रास्ति वणिजां मुख्यो, रविज्योतिष्मतामिव । नाम्ना धन इति श्रेष्ठी, पत्नी तस्यास्ति सुन्दरी॥४॥ अभूत्पुत्रस्तयोः सोमः, कामवत् केशवधियोः । रेखां स प्राप वाणिज्ये, धनुर्वेद इवार्जुनः॥५॥ अन्येद्यः स ययौ कस्मिन्नापणे क्रयहेतवे । विक्र यं वस्तु नाद्राक्षीत्तत्रासौ किन्तु किश्चन ॥६॥ सेव्यमानं वणिपुत्रैबुद्धये विनयान्वितैः । हेमसिंहासनासीनमपश्यच्छेष्ठिनं तु सः ॥ ७॥ ततश्च कौतुकाद्गत्वा, श्रेष्ठिनस्तस्य सन्निधौ । अपृच्छत्तमिति श्रेष्ठिन्नत्राऽडे लभ्यते किमु ॥८॥ तेनोक्तः श्रेष्ठथपि प्राह, वत्स ! स्वच्छमते ! शृणु । तदत्र लभ्यते यद्भो, अन्यत्र श्रूयतेऽपि न ॥६॥ कृतादरः पुनः सोमो, विनयादन्वयुक्त तम् । तात ! तद्वस्तु किं यत्त, नान्यत्र श्रूयतेऽपि हि ॥१०॥ ग्रहीताऽयमिति ज्ञात्वाऽचकथत् वणिजांवरः । अमृल्या लभ्यते बुद्धिः, कीर्तिवद्गत्वरै धनैः॥११॥ ततश्चोवाच सोमोऽपि, तात ! गृहीत मे धनम् । मह्य दत्तां च तां बुद्धिं, याऽपायोच्छेदशस्त्रिका ॥१२॥ शतान्यादाय पश्चाथ, द्रम्माणां स ददौ धियम् । द्वयोस्तृतीयो माभूस्त्वं, कलिं कुर्वाणयोरिति ॥१३॥ बुद्धिं श्रियमिवादाय, निजं धाम जगाम सः। गत्वा चाऽकथयत् पित्रे, बुद्धिग्रहणकारणम् ॥ १४ ॥ तच्छ् त्वाऽथ धनः कोपकम्पमानाधरोऽब्रवीत् । अरे ! मूर्खाऽग्रहीवित्तैर्बालवित्तामिमां मतिम् ॥ १५॥ चल चलाग्रतो मक्षु, तं मे दर्शय नैगमम् । वास्ते स वश्चितो नष्ट, येन त्वं पश्यतोहता ॥ १६ ॥ | ॥३०॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy