________________
चन्द्रप्रभस्वामि चरित्रम्
द्वितीयः परिच्छेदः
॥३०७॥
अथ ज्ञानी स्मितं चक्र, कोऽपि विद्याधरस्ततः। पप्रच्छ तं मुनिं हासकारणं प्राह तन्मुनिः ॥ १७॥ इयमस्य मृगस्याहो !, कलत्रं काश्चनप्रभा । वीवाहदिवसेऽप्येषा, वियुक्ताऽनेन बालिका ॥१८॥ मानुषीयं मृगस्त्वेष, वीवाहः कथमेतयोः । इति विद्याधरेणोक्ते, तवृत्तान्तं जगौ मुनिः॥6॥ विद्याधरोऽथ कृत्वान्त कृपां तं हरिणं ततः । यथास्थिताकृति चक्र, कामकेतुं स्वशक्तितः ॥१०॥ साथ वीक्ष्य निजं कान्तमाश्लिष्टं स्वेन वक्षसा । किमेतदिति सम्भ्रान्ता, लज्जासङ्कुचिताऽभवत् ॥ १०१॥ कामकेतुः समीक्ष्य स्वं, यथारूपं प्रियां च ताम् । हृष्टो ननाम तं साधु, शुश्रावेति मुनेगिरः ॥ १०२ ॥ दानशीलतपोभावभेदाद्धर्मश्चतुर्विधः । इहामुत्र सुखाकाङ्क्षाकारिभिः कार्य एव सः॥१०३॥ गृहव्यापारभारेण, मज्जत्येव भवाम्बुधौ । तपःसंयमपात्रेषु, दद्यादानं गृही न चेत् ॥ १०४ ॥ तत्र दानं भयादत्रोपरोधाद्भावतोऽथवा। पात्रे पुण्याय दत्तं स्यात् , सोमादीनामिव ध्रुवम् ॥१०५ ॥
॥ इति दाने कामकेतुकथा ॥
भयदाने सोमकथा।
॥ अथ भयदाने सोमकथा ॥ अस्ति चम्पापुरी कर्मकरीवास्याः किलालका । धर्मकर्मप्रभावाप्तसमृद्धथाऽत्यमरावती ॥१॥ अयं कामो वयं कामः, सन्देहादिति ते पृथक् । यं स्मरं च रतिप्रीती, श्रित्वा सापत्न्यमौज्झताम् ॥२॥
॥३०७॥