SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ . द्वितीया चन्द्रप्रमस्वामि चरित्रम् परिच्छेद ॥३०॥ दाने कामकेतुकथा। जानात्येव मृगः सर्व, किन्त्वसौ वक्तुमक्षमः । शनैः खञ्जगतिः श्वासभृतस्तामन्वगान्मुदा ॥ ६६ ॥ गत्या चैत्ये प्रभोश्चक , सा स्नात्रं विमलाम्भसा । राजचम्पकपुष्पाद्यैः, पूजा वस्त्रावृतानना ॥ ७० ॥ मृगोऽपि प्रभुमालोक्य, हर्षाश्रुपूर्णलोचनः । मूर्ना ननाम भूपीठासङ्गलग्नरजोजुषा ।। ७१॥ स्वामिप्रणामजातेन, पक्षपातेन सा हृदि । मृगं व्यावर्णयामास, शुभात्मा तिर्यगप्यसौ ॥ ७२ ॥ प्राप्ते काले फलाहार, कत्तुं सागाल्लतागृहम् । शनैम गोऽपि तत्रागात्परित्यक्ततॄणाशनः ।। ७३ ॥ वराकोऽयं व्यथाक्रान्तो, गृह्णात्याहारमद्य न । इति सा तव्रणे दिव्यौषधीप्रलेपमादधौ ।। ७४॥ तत्प्रभावाद्वणं रूढं, न्यवतिष्ट तथा व्यथा । मृगः सजोऽपि नैवात्ति, कत्तुणान्यभिमानतः ।। ७५ ॥ ततः सा चिन्तयामास, किमेष न चरत्यहो! १ । किमत्र कारणं ज्ञेयं १, वराको म्रियते क्षुधा ।। ७६ ॥ शाड्वलानि समानीय, सा तृणानि ददौ स्वयम् । दृष्टयापि न मृगोऽपश्यत्पशुभक्ष्याणि तान्यथ ।। ७७ ॥ पूजयित्वा प्रभु भोक्ष्येऽत्रस्थेत्यभिग्रहग्रहा । पुष्पाण्याहतु मारोह , सान्यदा दूरपर्वतम् ।। ७८ ॥ व्याघुटथ सा समायान्ती, मार्गाद्धीनाऽभ्रमच्चिरम् । मौलं न प्राप सा मागं, जिनवाक्यमभव्यवत् ।। ७६ ।। सा फलेग्रहिवृक्षेषु, फलानि प्राप्नुवत्यपि । अभिग्रहं स्मरन्ती च, क्षुधितापि जघास न ॥ ८०॥ सुष्वाप क्वापि सा रात्रौ, ध्यायन्ती प्रभुमेव हि । स्वप्नेऽपि स्वामिनः पूजा, कुर्वाणां स्वं ददर्श सा ॥ ८१ ॥ विभातायां विभावयों, पश्यन्ती चेतसा प्रभुम् । स्वामिचैत्यदिशे चक्र, नमस्कारमुदारधीः ॥२॥ R ॥३०॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy