________________
चन्द्रप्रमस्वामि चरित्रम्
द्वितीय: परिच्छेदः
॥३०४॥
दाने कामकेतुकथा
आस्फल्य भग्नः परितो, नवोढा पतिताथ सा। सर्वाङ्गीणव्यथाजातमूर्छाऽस्थादवनौ क्षणम् ॥ ५५ ॥ मन्तेि सा समुत्थाय, विललाप भयाकुला । हा! मातरं ! पितः ! काह, देवेन निहिता क्षणात् ॥५६॥ पूर्वे जन्मनि किं कोऽपि, मयाप्यपहृतो भवेत् । यद्धकङ्कणा जातवीवाहाऽपहृताऽस्मि हा!॥ ५७॥ भूयश्च कुत्र मे भावी, संयोगः पितृमिनिजैः१। हा ! मन्दभागिनी काहं, तिष्ठामि च व्रजामि च १॥ ५८॥ तारस्वरं विलंप्येति, स्वयं सम्बोधभागसौ। बभ्राम परितः कन्दफलमूलकृताशना ॥ ५४॥ ददर्श सान्यदा क्वापि, कुजे नाभेयमन्दिरम् । भक्त्या ननाम तद्विम्बमानचे च सुचेतसा ॥ ६॥ अवचित्यावचित्याथ, पुष्पाणि सुरभीणि सा । चकारादिजिनेन्द्रस्य, पूजा वैचित्र्यशालिनीम ॥ ६१ ॥ प्रभोः पूजादिशुश्रुषाव्याकुला काञ्चनप्रभा । विसस्मार पितुर्मातुः, कुटुम्बस्य च सौहृदम् ॥ ६२ ॥ एवं पुण्यार्जनात क्षीणान्तरायकर्मबन्धना । कदापि सा ययौ बाला, हृदमेकं हि पाथसे ॥६३ ॥ मृगः सोऽपि हृदे तत्र, दक्षिणेर्मा पुरागतः । ददर्श तां मृगदृशं, समुपालक्षयत्ततः ॥ ६४ ॥ सम्यग् साभिनवोढेयं, प्रिया मे काश्चनप्रभा । वीवाहोचितवेषोऽस्या, यत्स एव हि दृश्यते ॥६५॥ प्रहारवेदनाक्रान्तः, स शनैस्तामुपाययौ । भूयो भूयोऽप्यपश्यच्च, प्रेम्णा तां परितो भ्रमन् ॥६६॥ सापि तस्य प्रहारार्ति, दृष्टाऽनुकम्पया जले। प्रक्षाल्य व्रणरोहिण्या, दिव्योषध्या लिलेप तम् ॥ ६७ ॥ गृहीत्वाम्बु चचालेषा, श्रीजनायतनं प्रति । मूलादपि मृगस्यास्य, तत्स्वरूपमजानती ॥ ६८॥
॥३०॥