SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि द्वितीयः परिच्छेदः चरित्रम् ॥३०२॥ दाने कामकेतुकथा। कामकेतुस्ततो वस्त्रप्रथमग्रन्थिशम्बलम् । उद्ग्रथ्य बुभुजे सर्व, तत्प्रभावादसौ ततः॥२७॥ बभूव त्रिफणः सपः, करालो यमखड़गवत् । दृष्ट्वा फूत्कारिणं तं हि, नेशुः सर्वे जना भयात् ॥२८॥ दूरीभूय ततस्तैश्च, हन्यते लेष्टुभिईढम् । स सर्पश्च प्रहारातों, न शक्तो नष्टुमन्यतः ॥ २६ ॥ पाथेयवस्त्रग्रन्थीनामधस्तात्तस्थिवानहिः । एकेन केनचित् पुंसा, मुक्तो लेष्टुः परिस्फुरन् ॥३०॥ द्वितीयग्रन्थेरुपरि, सङ्घातेन पपात च । ग्रन्थिः पुस्फोट तन्मध्यात् , पाथेयं विशरार्वभूत् ॥ ३१॥ दैवाच्च तस्य सर्पस्य, पाथेयं प्राविशन्मुखे । बभूव तत्प्रभावेण, कामकेतुः स्वरूपभृत् ॥३२॥ अहो ! मे चन्द्रकान्तायाः, कियच्छक्तिविजम्भितम् ? । तया मे मारणोपायश्चक्रऽयं विहितेर्षया ॥३३॥ पक्षविपक्षभावेन, ग्रन्थौ ग्रन्थौ पृथक् पृथक् । समस्त्यत्रौषधं रूपपरावर्तस्वरूपकृत ॥ ३४॥ इति चित्रीयमाणोऽन्तः, कामकेतुः स्वरूपभृत् । किमेतदिति पृष्टस्तैर्बिभ्यद्भिः सार्थपूरुषः ॥ ३५ ॥ उवाच कामकेतुश्च, तेषां चित्राय सादरम् । अहं बहुप्रभावोऽस्मि, योगी सर्वत्र गामुकः ॥ ३६॥ दत्तघातापराधित्वाद्विभ्यद्भिस्तैमनस्यथ । त्यक्तो रात्रौ स सुप्तोऽपि, तत्प्रभावं विचिन्त्य हि ॥ ३७॥ गते सार्थे प्रभातेऽसौ, समुत्थाय व्यचिन्तयत् । मद्वाचा शङ्कितः सार्थस्त्यक्त्वा मां क्वचिदप्यगात् ॥ ३८॥ तत्सर्वग्रन्थिपाथेयमास्वाद्याल्पाल्पमात्मना। वीक्ष्ये प्रभावं किं किं स्यादमीभिश्चित्रमद्भुतम् १॥ ३६॥ इति ध्यात्वा पृथग् ग्रन्थिपाथेयं विततान सः । जघास तृतीयग्रन्थेः, शम्बलं कवलैस्ततः ॥ ४०॥ |॥३०२॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy