________________
द्वितीयः
चन्द्रप्रमस्वामि चरित्रम्
परिच्छेदा
दाने
॥३०१॥
कामकेतुकथा।
उपविश्य समुत्तस्थे, कैश्चित्त्वकृतभोजनैः । उच्छिष्टवदनैः कैश्चिदलब्धाभ्युक्षणैर्गतम् ॥ १३ ॥ गृहीत्वा पूर्णपात्राणि, कैश्चिद्यातं पुन है । त्यक्त्वा मङ्गलगीतानि, चक्र ार्योऽनुदेवितम् ॥ १४ ॥. असम्पूर्णनृत्तसुखाः, काश्चित्पेतुर्भु वि भ्रमात् । दुःखेन क्षुधया चापि, मुमच्छु : काश्चिदाकुलाः ॥१५॥ लोके शोकाकुले काश्चित् , स्वेच्छया बुभुजुः स्वयम् । नवोढापितृवर्गश्च, शुशोच च रुरोद च ॥ १६ ॥ कामकेतुकलत्रं चाग्रेतनं मुमुदे हृदि । कामकेतुरथैकाकी, शोकवान स्वगृहं ययौ ॥१७॥ अशक्तः प्रत्याहरणे, नवोढाया बभूव सः। वीवाहवासरः शोकसाम्राज्येनापहस्तितः ॥ १८॥ यतःसंसारेऽस्मिन्नसारे हि, पदार्थाः क्षणलम्भिनः । लोहकृद्भस्त्रिकेव स्युः, पूर्णा रिक्ताश्च तत्क्षणात् ॥१९॥ प्रददात्युत्सवे शोकं, शोके सम्मदसम्पदम् । अन्यथा विदधत्सर्व, बलीयः कर्म केवलम् ।। २०॥ ततः पितृभ्यां सर्वत्र, नवोढा काञ्चनप्रभा। गवेषिताऽपि न क्वापि, प्रादृश्यत गवेषकैः ॥२१॥ तां गवेषयितुं कामकेतुः स्वयं चचाल सः। अकारयच्च पाथेयं, चन्द्रकान्तां प्रभण्य तु ॥ २२॥ चन्द्रकान्ताऽथ दध्यो चानेष्यते काश्चनप्रभाम् । ततः करोमि तद्यन, तां नानयति नैत्ययम् ॥ २३॥ कृत्वा पाथेयमेपाथ, बद्ध्वा ग्रन्थिषु सप्तसु । अर्पयामास कान्ताय, तदादाय चचाल सः॥२४॥ यस्यां दिशि स ताक्ष्योऽगात , प्रतस्थे सोऽपि तां प्रति । अर्द्धमार्गे च मिलितः, सार्थस्तस्य महानथ ॥२५॥ गच्छंस्तेन सहैषोऽपि, प्राप किश्चित्सरोवरम् । सार्थः प्रववृते भोक्तुं, स्वस्वपाथेयमादरात् ॥ २६ ॥
॥३०१॥