SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि द्वितीयः परिच्छेदः चरित्रम् ॥३०॥ दाने कामकेतुकथा। ॥ अथ दाने कामकेतुकथा | अस्मिन् संसारसमामे, चतुर्गतिचतुर्दले । मुख्यो मर्त्यत्वहस्त्येव, तस्मादुचः परो न यत् ॥१॥ एनमारुह्य जीवोऽयं, राजा कर्मरिपून् जयेत् । आरूढोऽन्यत्र सुप्रापः, स एतः परिभूयते ॥ २ ॥ सोऽपि शक्तः प्रजायेत, दानेनैव प्रतापवान् । दानप्रभावादाश्वेव, प्रोन्मूलयेद्भवाछिपान् ॥ ३॥ दुग्धेनेवाञ्जनं पात्रदानेन क्षालयेत्पुमान् । गृहव्यापारसम्पुष्यत्कल्मषं सुखलालसः ॥ ४ ॥ दानादासादयेद्वित्तं, दानादासादयेद्दिवम् । दानादासादयेन्मोक्षं, कामकेतुर्नरो यथा ॥ ५॥ अस्ति भारतक्षेत्रेऽस्मिनगरी कमलावती । सुपात्रदानव्यसनी, यत्र लोकः सदाऽपि हि ॥ ६॥ तत्रास्ते क्षत्रियाधीशः, कामकेतुर्गुणोन्नतः । सा कला नास्ति नाश्लिक्षद्या गुणैः सुभगं हि तम् ॥ ७ ॥ तस्याऽसीचन्द्रकान्ताख्या, भार्याऽपत्यविवर्जिता । ततश्च स्वजनभूयः, स परिणायितस्ततः॥८॥ वीवाहवासरे साथ, नवोढा चारुलोचना । दारुघाट गरुत्मन्तं, कौतुकादारुरोह च ॥ ६ ॥ चापलात्कीलिकायन्त्रं, व्यश्लेषयन्मृगेक्षणा । स वायुसङ्ग्रहात्काष्ठताक्ष्यों व्योनोदडीयत ॥१०॥ तत्रारूढा नवोढा सा, बाढं गाढकृतग्रहा । मनोवेगेन ताक्ष्येणोत्पपाताकाशमण्डले ॥११॥ ततश्च पूच्चक्रे कैश्चिद्भुञ्जानैरस्फुटस्वरैः । ताम्बूलपूर्णवक्त्रत्वाजध्ने कैश्चिदुरोऽस्वरम् ॥ १२ ॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy