SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् ॥२६६॥ प्राप्तश्च दलयन्नुर्वीमभिरम्यपुरीमसौ । ज्ञातं च सैकतेनैतद्भोगराजो युदेति हि ॥ ६२ ॥ उवाच मन्त्रिणं यद्भो !, मया प्रोक्तं तदा किल । नरः समृद्धिमारूढोऽप्याराध्यमवमन्यते ॥ ६३ ॥ भोगराजेन तत्सर्वं पुरं यावदवेष्टयत । ततः सैकतराजेन तमभिप्रेषितं दलम् ॥ ६४ ॥ रचयित्वा रणक्षेत्रं, मिथो योद्धुं कृतादरम् । तद्दलं द्वयमाटोपाद्यावत् सज्जमभूत्ततः ॥ ६५ ॥ स्वयं सैकतराजेन, समादिष्टः स चेटकः । यदेतद्भोगराजस्य, राज्यं द्रागुपसंहर ॥ ६६ ॥ ततश्च तत्तथा युद्धसंरब्धमुद्यतायुधम् । भोगराजस्य सैन्यं द्राग्, काप्यगादिन्द्रजालवत् ॥ ६७ ॥ भोगराजस्ततः पूर्वसंगीतमलिनाम्बरः । विना स्वां दयितामन्यन्न पश्यत्येष किश्चन ॥ ६८ ॥ किमेतदिति सम्भ्रान्तो, यावच्चिन्तामवाप सः । तावत्सैकतराजेनाहूतोऽगान्नृपसंसदम् ॥ ६६ ॥ प्रदत्ततालिकं राज्ञा, म प्रोच्चैर्जहसे यथा । तत्ते कुत्र गतं राज्यं, भोगराज ! क्षणादपि ९ ॥ ७० ॥ प्रहासाय जगादेष, राजन् ! सैन्यं मयाऽधुना । शक्रस्य दैत्यरुद्धस्य, साहाय्ये प्रेषितं द्रुतम् ॥ ७१ ॥ इत्यादिविटवाणीभिः, प्रमोदयन् स सैकतम् । दिनानि गमयामास, पुरुषार्थविरक्तधीः ॥ ७२ ॥ इति दुर्विनयात्प्राप, न चायं पैतृकीं श्रियम् । न च राजप्रसादोत्थां, कार्यो दुर्विनयो न तत् ॥ ७३ ॥ ॥ इति दुर्विनये भोगराजकथा ॥ द्वितीयः परिच्छेदः दुर्विनये भोगराज कथा । ॥ २६६॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy