SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि द्वितीयः परिच्छेदः चरित्रम् ॥२८॥ दुविनये भोगराजकथा। प्रत्यहं येन कार्य स्यात्तत्सर्व चेटको व्यधात् । भोगराजस्य नैवाभूत , केनापि न्यूनता खलु ॥ १८ ॥ कुर्वन् राज्यं स मतोऽभून्न शक्रमपि मन्यते। दुर्विनीतश्च राज्यं तत्, प्राप्तश्च को न माद्यति॥४६॥ दुर्विनीता विनीताश्च, कष्टचेष्टाः स कारयन् । भोगराजो नृपो दुष्टश्चेटकं निरवेदयत् ॥ ५० ॥ अथान्यदा सकतेनौष्ट्रिकैरेष तुरङ्गमान् । याचितः परीक्षाहेतोः, कथं स्मरति मां न वा १॥ ५१ ॥ कष्टात् कथञ्चनासबोपकारं नृपतेः स्मरन् । तुरङ्गान् प्रेषयामास, सेकताय नृपाय सः॥ ५२ ॥ दिनानां कियतामन्ते, पुनः स सैकतो नृपः। भोगराजादयाचिष्ट, भूयोऽश्वान् दूतपूरुषः॥ ५३॥ मत्तः कथमयं भूयो भूयः, प्रार्थयते हयान् ? । आधिक्यं मनुते स्वस्य, बलेन केन गर्वितः १॥ ५४ ॥ नैवाहमर्पयिष्यामि, तस्मै तुरङ्गमान्निजान् । कुर्याद्यद्रोचते तस्य, यदेषोऽस्मि स्थितोऽत्र भोः ॥ ५५ ॥ इति ब्रवाणो मन्च्यायैर्मोगराजो व्यबोध्यत । सैकतक्ष्माभुजे चाश्वाः, कतिचित्र प्रेषिताश्चिरात् ।। ५६ ॥ तुरङ्गप्रेषणामर्ष, दधानो मनसि स्वयम् । हतप्रतापमात्मानं, मन्यमानोऽवति प्रजाः॥ ५७ ॥ ततो भूयोऽपि साराणि, वस्तूनि सैकतो नृपः । अयाचयद्भोगराजात , स प्रहित्य बृहन्नरान् ॥ ५॥ ततश्च कुपितो भोगराजोऽपि सैकतं प्रति । अभिषिषेणयिषुर्दाग, जयढक्कामवादयत् ॥ ५६ ।। सर्वाभिसारसम्पूरप्रच्छादितमहीतलः । समुद्भुतरजःपुजलुप्तादित्यकरोऽपि च ॥६० ॥ अवनामितशेषाहिवपुर्नालफणादलः। दिग्गजानामपि क्षोभ, कुर्वाणो निरगात्पुरात ॥६१॥ युग्मम् ॥ ॥२१॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy