SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि चरित्रम् द्वितीयः परिच्छेदा ॥२६७॥ दुविनये भोगराजकथा। पिण्डालनानो न्यग्रोधवृक्षस्याधो भवि स्थितः । वदेरुच्चैरयं लेखो, गृह्यतां नृपशासनात् ॥ ३४॥ यो ग्रहीष्यति लेखं स, दास्यते ते यथेप्सितम् । इत्युक्त्वा भूभृता स्वेन, भोगराजो व्यसृज्यत ॥ ३५॥ सोऽथ सह कलत्रेण, विन्ध्याद्रौ प्रययौ क्रमात् । यथादिष्टं तथाऽपश्यत्रोच्चैयग्रोधपादपम् ॥ ३६॥ तस्याधस्तात् स्थितःप्रोचे, लेखोऽयं गृह्यतामिति । निःसृतौ च वटस्कन्धादग्रहस्तौ कृताञ्जली ॥ ३७॥ भोगराजेन लेखोऽथ, क्षिप्तस्तत्र कृताञ्जलौ। विभाव्य चेटको लेखस्यार्थ तिरोहितोऽवदत ॥३८॥ स्वाभिप्रेतं वद क्षिप्रं, यथा सम्पादयाम्यहम् । एषोऽस्मि सैकतनृपादेशस्य करणोद्यतः ॥ ३६॥ भोगराजस्ततो दध्यौ, राजादेशादयं मयि । प्रसन्नो दास्यते सर्व, याचे राज्यं ततोऽत्र हि ॥४०॥ जगाद च विधेहि त्वं, मद्योग्यं पुरमुत्तमम् । साम्राज्यप्रक्रियां सर्वा, मां कारय प्रतापतः ॥४१॥ इत्युक्ते भोगराजेन, व्यधात् सोऽप्यखिलं क्षणात् । भोगराजस्ततः प्रेक्षाश्च के शक्रेण गर्वभाक् ॥ ४२ ॥ राजप्रासाददेवौकःसौधहट्टप्रतिष्ठिताम् । वापीकूपसरोवपारामरम्यश्रियं पुरीम् ॥ ४३ ॥ इतस्ततश्च लोकं च, स्वस्वव्यापारकारिणम् । उत्सवानन्दसम्मोदिकामिनीजनजम्भितम् ॥ ४४ ॥ हस्त्यश्वशालारम्ये च, निविष्टद्वारवेत्रिणि । सौधे स्वर्णमये पश्यत्यात्मानं प्रियया युतम् ॥ ४५ ॥ जय नन्द चिरं जीवेत्यादिवाक्यैःप्रसादयन् । राजलोको मन्त्रिमुख्यो, ददृशे स्वपुरोऽमुना ॥ ४६॥ चिररूढामिवासाद्य, भोगराजो नृपश्रियम् । स्वाज्ञां विस्तारयामास, चक्रे राज्यं च विक्रमी ॥ ४७ ॥ ॥२६७॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy