SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् ॥२६६॥ ततो जानामि यद्येतान् दशनानुन्नतान्नतान् । अनेनोपलखण्डेन, पातयामि निहत्य तान् ॥ २० ॥ ततश्च कुपितः प्राहोपाध्यायो याहि रे शठ १ । दुर्विनीत ! न मे कार्य, त्वत्पाठाधिगतैर्धनैः ॥ २१ ॥ कलापीवाऽब्दगर्ज्याथ, तद्वाचा प्रीणितो द्रुतम् । उत्थाय स गतो रन्तुं, परिपूर्णमनोरथः ॥ २२ ॥ एवमुच्छृङ्खलः कांश्चिदाघ्नन् कैश्चिदशाहतः । दिनानि गमयन्नेष, दुष्टधीः प्राप यौवनम् ॥ २३ ॥ दुविनीतत्व विख्यात, उद्बोढुं लभते नहि । स कन्यकां महेभ्यानां, सत्कीर्तिं महतीं न च ॥ २४ ॥ मातु पितुर्नैव, देवस्य न गुरोर्न च । स्वजनस्य न मित्रस्य, वाचापि विनयं व्यधात् ॥ २५ ॥ ततो निर्वासितः पित्रा, काश्चित् स्वीकृत्य योषितम् । अभिरम्यपुरे गत्वा, सिषेवे सैकतं नृपम् ॥ २६ ॥ दुर्विनीताः सहासाथ, वाच उच्चारयन्नसौ । नर्मपात्रं बभूवास्य, सैकतस्य महीपतेः ॥ २७ ॥ अन्यदा सैकतो राजा, विद्वगोष्ठीमुपागतः । श्रुत्वा प्रभावं मन्त्राणां मन्त्रमेकमसाधयत् ॥ २८ ॥ ततश्च चेटकः सिद्धो यद्राजाह करोति तत् । सच्चवतां मनुष्याणां किङ्करा देवयोनयः ॥ २६ ॥ अवश्यमृद्धिमारूढः पुमान् स्यादवलेपभाक् । इति वादिनि भूपाले, भोगराजोऽन्यदाऽत्रवीत् ॥ ३० ॥ नित्यं त्वां सेवमानोऽहं, म्रिये स्वामिन् ! बुभुक्षया । तत्प्रसीद दृशं देहि, प्रसन्नां मयि भूपते ! ॥ ३१ ॥ ततश्च सैकतो राजा, मन्त्रप्रभावमीचितुम् । सत्यामृद्धौ मदोऽस्य स्यान्न वेत्यवेक्षितुं च सः ॥ ३२ ॥ लिखित्वा लेखं स्वेनैव, भोगराजाय सोऽक्षिपत् । ऊचे च यदयं लेखो, विन्ध्यस्योपत्यकातले ॥ ३३ ॥ द्वितीयः परिच्छेदः दुर्विनये भोजराज कथा । ॥२६६॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy