SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् द्वितीयः परिच्छेदः ॥२६ ॥ दुविनये भोगराजकथा। घातदर्वाक्यवस्त्वोधभञ्जनोच्छृङ्खलः स तु । न केवलं कुटुम्बं स्वं, परानप्युदवेजयत् ॥ ६॥ ततो विनयशिक्षाये, कलाचार्यस्य सोऽर्पितः । सचिवेन यतः पित्रा, शिक्षणीयाः सुता हठात् ॥७॥ पुरः समुपवेश्यैनमाचार्येऽर्थविचारिणि । भोगराजोऽन्यतः पश्यन्नहि शृणोत्यवज्ञया॥८॥ मन्त्रिपुत्रत्वादाचार्यः, शक्तो वक्तु न तं प्रति । शृणु चिन्तय वत्स ! त्वं, प्रोवाचेति मृदु गिरम् ॥६॥ तथापि बधिर इवाशृण्वन् पश्यति सोऽन्यतः । पुनः प्रोक्तः स गुरुणा, किमन्यतस्त्वमीक्षसे १॥१०॥ धृष्टो निर्भीरुवाचैष, गुरो ! पश्यामि कोतुकम् । पश्य छिद्रादतोऽखण्डश्रेणिभाजो हि कीटिकाः॥११॥ किलैकतन्तुना बद्धा, इव यान्त्यन्यतो नहि । न विश्लिष्यन्ति किन्त्वेताः, कुर्वते स्वस्तिकाकृतिम् ॥१२॥ ततोऽल्पां धमाधाय, प्राहामात्यसुतं गुरुः । कथयतोऽर्थसारं मे, वीक्षस्व मुखसन्मुखम् ॥ १३॥ ततः स एकया दृष्टया, वीक्षमाणोऽपि तन्मुखम् । विज्ञातो गुरुणा ह्यन्यत्किमपि चिन्तयन्निति ॥ १४ ॥ अरे ! किं चिन्तयस्यन्यत् , कथितं न शृणोषि किम् ? । इत्युक्तो गुरुणा प्राह, स्मित्वोच्चैः स स्फुटाक्षरम् ॥१५॥ युष्माकं वदतामासंस्ताडिता गलनाडिकाः । प्रत्येकं गणयन्नस्मि, कियत्यः सन्ति ता इति ॥ १६ ॥ उपाध्यायस्ततः कोपादूचे वीक्षस्व मन्मुखम् । अवधारय चिनेऽथ, मृख ! मा दा दृशौ परे ॥ १७॥ पश्यत्यभिमुखं शून्ये, तस्मिन् गुरुरुवाच तम् । किमरे ! वीक्षसे ? धत्से १, किं चेतस्यथ सोऽवदत् ॥ १८ ॥ प्रभो ! यदा भवन्तोऽथे, व्याचक्षते तदा मुखे । अतिव्यात्ते मया दृष्टा, दशना विषमोन्नताः॥१६॥ ॥२६॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy