________________
चन्द्रप्रभस्वामि चरित्रम्
द्वितीयः परिच्छेदः
॥२४॥
दुविनये भोगराजकथा।
तं तथा बाधितं साधु, विनीतः प्रेक्ष्य सासदृक् । पपात पादयोस्तस्य, निन्दनात्मानमात्मना ॥ ५५॥ त्रिधा क्षमयतः साधु', विनीतस्य महात्मनः । समूलङ्कृतवीवाहोचितमण्डनशालिनः॥५६॥ आत्मनः प्रणिधानेन, भावनातत्त्वमीयुषः । घातिकर्मक्षयाज्जातं, केवलज्ञानमुज्ज्वलम् ॥ ५७ ॥ युग्मम् ॥ __ अप्रतिपातिना तेन, लोकं ज्ञानेन पश्यतः । चारित्रचिह्नमहायार्पयदेतस्य देवता ॥ ५८ ॥ भवाम्भोधिशिला नारीमपास्य संयमश्रियम् । उपयेमे विनीतोऽयं, तस्मिन् लग्नशुभक्षणे ॥ ५ ॥ ततो या विनये बुद्धिमनुष्याणां समुज्ज्वला । इहामुत्र च यत्प्रीतं, यावन्मोक्षं ददाति सा ॥६॥
॥ इति विनये विनीतकथा ॥
॥ अथ दुर्विनये भोगराजकथा ॥ प्रागात्मा विनये योज्यः, प्राप्यन्ते विनयाद्गुणाः । गुणेभ्यः सम्भवन्त्यर्थास्तेभ्यः पुण्यं ततः शिवम् ॥१॥ नास्त्येव विनयो यस्य, स पुमान् कथमश्नुते १.। प्रभुत्वमानसम्पत्तिसुखानि भोगराजवत् ॥ २॥ अस्ति स्वस्तिनिधानाख्यं, पुरं ख्यातं गुणद्धिभिः । जैनायतनमालाभिः, पुरश्रीयंत्र शोभते ॥३॥ यस्यातितीक्ष्णे निस्त्रिंशे, सपानीये लसन्त्यपि । छिन्ना मग्रा जयश्रीन, स तत्रास्ति नृपो जयः ॥ ४॥ तस्यास्ति सचिवो वाग्मी, नागादित्याभिधोऽस्य च । तत्पत्न्या नागदेव्याश्च, भोगराजः सुतोऽभवत् ॥ ५॥
॥२६४॥