SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि चरित्रम् द्वितीयः | परिच्छेदः ॥२६३॥ विनये विनीतकथा। तथैव विनयस्नेहाव , पितुर्धातुः पदोनमन् । आश्लिष्टो वक्षसा ताभ्यां, विनीतः प्राप सम्मदम् ॥४१॥ स चक्रे स्वगृहे तांश्च, यत्कृताधिकृतौ सदा । भवन्ति वृद्धा गेहेष्ठ, पुण्याद्धि गृहमेधिनाम् ॥ ४२ ॥ यथा पित्रोस्तथाऽन्येषामपि सैष यथोचितम् । कुर्वन् वाग्भिः क्रियाभिश्च, विनीतः ख्यातिमासदत् ॥४३॥ स देवे गुरुषु प्राप, मुख्यतां विनयस्पृशाम् । अनाविव रसश्चित्ते, क्रौर्य नास्य पदं दधौ ॥४४॥ सस वेश्मनीवास्य, शमशालिनि चेतसि । कषाया न वसन्त्येव, स्वविनाशनभीरवः॥४५॥ राजव्यापारसुव्यग्रे, ऋद्धिवन्धनिरन्तरे । गार्हस्थ्ये वर्तमानोऽपि, स तु धर्ममपालयत् ॥ ४६॥ उपाश्रये स साधूनां, वन्दनाय कदाप्यगात् । दृष्ट्वा चैकं मुनि ग्लानं, श्रद्धावंधोधुरोऽवदत् ॥४७॥ मद्गृहेऽस्त्यौषधं सम्यग, रोगस्यास्य निवर्त्तकम् । प्रासुकं चेति साधुभ्यामानाययत सत्वरम् ॥ ४॥ इत्युदित्वा ययौ गेहे, साधुभ्यां सह मन्त्रिराट् । प्रविष्टोऽन्तगृह सोऽथ, बहिः साधू तु तस्थतुः॥४६॥ उपयन्तुष्ठिकन्या, तदा चाग्रेऽपि सूत्रितम् । आसीत्तदेव वीवाहदिनं तस्य गुणावहम् ॥५०॥ विनीतो व्याकुलस्तत्र, विसस्मार तदौषधम् । साधू बिलम्ब्य किश्चिच्चाजग्मतुः समुपाश्रयम् ॥५१॥ वीवाहोचितनेपथ्यमण्डनानि स कारयन् । लमक्षणस्य सम्प्राप्ती, सस्मार च तदौषधम् ॥ ५२॥ कृत्वा तत्रोत्तरं किश्चिदेकेन सुहृदा सह । स पश्चात्तापमादायौषधमुपाश्रयं ययौ ॥ ५३॥ मुनिग्लानश्च रोगाचर्कोऽप्यौषधं नान्यदादधौ । ततः कष्टमुपारुढो, निस्सहोऽभूदतीव हि ॥५४॥ ॥२६॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy