________________
चन्द्रप्रभस्वामि
प्रथमः परिच्छेदः
चरित्रम्
सत्त्वेऽजापुत्रकथा
कौतकाद्वीक्ष्य तं व्याघ्र, नरग्रस्तं ततश्च सा । स्वामिन्य दर्शयाम्येतदिति तं द्रागुदक्षिपत् ॥ २६॥ स्वशक्त्यानीय मुक्त्वा तं, सर्वाङ्गसुन्दरीपुरः । देवि ! पश्येदमाश्चर्य, हृष्टाऽवादीच्च तामियम् ॥ २६॥ अथासौ दर्जयो राजा, पूर्व तत्र कृतस्थितिः । सर्वाङ्गसुन्दरीप्राणनाथोऽपश्यत्तदद्भुतम् ॥ २६९॥ ततोऽसावुन्मनीभूय, भूयो भूयो विलोक्य तम् । सस्मार कथितं कर्णे, तदा तद्देवतावचः॥ २७॥ षण्मासानन्तरं मित्रमेवंरूपव्यवस्थितम् । द्रक्ष्यसि त्वमित्यद्याहमस्माषमस्य दर्शनात् ॥ २७१॥ स्मृत्वा दिव्यौषधी तां च, घृष्टाऽभ्यषिञ्चदात्मना । व्याघ्ररूपधरं मित्रं, ततश्च तत्प्रभावतः ॥ २७२ ॥ निःससार नरीभूय, पुरुषास्यादजासुतः । मकरोऽभूत पुमानेव, द्वावप्येतौ च जीवितौ ॥ २७३ ॥ वीज्यमानः स्वयं राज्ञा, स्वस्थीभूतश्च किश्चन । अजासूः प्रेक्ष्य राजानमुत्तस्थौ विगतश्रमः॥ २७४ ॥ प्रमोदाथणि मुश्चन्तावजासूदुर्जयो मिथः। आलिङ्गय गाढमेकस्मिन्नासनेऽथ न्यषीदताम् ॥ २७५ ॥ हृष्टो राजा स्ववृत्तान्तमजासूनोरचीकथत् । हर्षविस्मयवान् सोऽपि, स्ववृत्तं भूभुजे पुनः ॥ २७६ ॥ अजाम्ररात्मभूपालदुःखाग्निभ्यां ज्वलद्वपुः । निर्वाप्यामृतकुल्याभिन पवाग्भिस्ततोऽवदत् ।। २७७ ।। मित्र ! त्वं मत्कृते प्राणानत्याक्षीस्तत्र वच्मि किम् । परोपकारकारित्वे, यतस्त्वमसि लम्पटः ॥ २७८ ॥ पुरों प्रति चल क्ष्माप !, गत्वा तत्र स्वदर्शनात् । निर्वापय निजं लोकं, प्रजाः स्वा देव ! पालय ॥ २७६ ॥ त्वया विना मया दृष्टो, लोकस्ते शोकवान् रुदन् । विना हि पितरं स्वामिन् !, बालकानां कियत्सुखम् ।।२८०।
॥२३॥
॥२३॥