SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभ स्वामि चरित्रम् ॥२६१॥ ज्ञात्वा श्रीहर्षमायान्तं, चम्पेशः सम्मुखोऽचलत् । ततो नासीरयोरासीदिति युद्धं परस्परम् ॥ १३ ॥ दन्तादन्ति गजैर्युद्धं, रथिकैश्च शराशरि । खड्गाखड्गि च पादातैः कुन्ताकुन्त्यश्ववारकैः ॥ १४ ॥ दैवाच्चम्पेशसैन्येन, भग्ने श्रीहर्षभूपतौ । तस्य सैन्यं पलायिष्टादाय जीवान् दिशो दिशि ॥ १५ ॥ विनीतोऽपि परित्यक्तो, नश्यद्भिः स्वपदातिभिः । आत्मेव सुकृतेनैव, मुक्तः कर्मकरैः स तैः ॥ १६ ॥ स एकां दिशमुद्दिश्य, नश्यन्नैक्षिष्ट निम्नगाम् । तत्र स्नात्वाऽम्बु पीत्वा च तीरवृक्षमशिश्रियत् ॥ १७ ॥ अथैकं कान्दिशीकं स, मृगं तदनुसादिनम् । उद्गीर्णास्त्रं समीक्ष्यैणस्यान्तरा दययाऽभवत् ॥ १८ ॥ मृगे दूरं गते प्रेक्ष्य, सादिनं क्रोधवादिनम् । विनीतः प्राह युज्येत, त्वादृशां दीनमारणम् १ ॥ १६ ॥ वल्लक्षणैरहं वेद्मि, राजाऽसि क्षत्रियोत्तमः । क्षत्रियाणां गृहीतास्त्रे, शस्त्रघातः प्रशस्यते ॥ २० ॥ इत्यादिवचनैस्तस्य, शास्त्रतत्त्वार्थवादिभिः । स राजा पृथिवीचन्द्रः, प्रबुद्धः शस्त्रमत्यजत् ॥ २१ ॥ धर्मोपदेष्टाऽसौ मेऽभूदिति प्रत्युपकृन्नृपः । क्ष्मातिलकपुरे सौवे, विनीतं सचिवं व्यधात् ॥ २२ ॥ तेन न्यायात् पुरीलोकं रक्षता कीर्त्तिमीयुषा । किमपि याचतेत्युक्ता, नेति कर्मकृतोऽवदन् ॥ इतश्च चम्पानाथेन, भग्नार्यां क्ष्मापुरि क्षणात् । विषवाक्योऽग्रहीद्दीक्षां, वैराग्याद्गुरुसन्निधौ ॥ २४ ॥ तप्यमानस्तपस्तीव्रमधीयन्नागमानसौ । क्ष्मातिलकपुरेऽप्यागाद्विपवाक्यो व्रती क्रमात् ॥ २५ ॥ गुरूनापृच्छ्य पुण्यात्मा, मासक्षपणपारणे । अविशत्पर्यटन्नेष, विनीतामात्यवेश्मनि ॥ २६ ॥ २३ ॥ द्वितीयः परिच्छेदः विनये विनीत कथा । ॥२६१॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy