SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ ॥ विनये विनीतकथा॥ चन्द्रप्रमस्वामि द्वितीय परिच्छेदः चरित्रम् ॥२६॥ विनये विनीतकथा। गुणेषु विनयः श्लाघ्या, तेजस्विषु यथा रविः। येन कमग्रहाः सर्वे, प्रच्छाद्यन्ते निजोदयात् ॥१॥ विनयात्सम्पदः सर्वा, मेघादिव जलद्धयः । केवलज्ञानलाभश्च, विनीतस्यैव जायते ॥२॥ व्योम्नीवार्कः क्षमापुयां, श्रीहर्षो नाम भूपतिः । वैरिस्त्रीनेत्रकुमुदसङ्कोचव्रतनिवृतः ॥ ३ ॥ स्ववाग्दोषपरिभ्रष्टश्रेष्ठिभावोऽस्ति तत्र तु । विषवाक्याभिधः श्रेष्ठी, प्रारब्धकृषिजीवनः॥४॥ अन्यदा कर्मकृद्योग्यं, भक्तं मुनि निधाय सः । गच्छन् क्षेत्रे ददशैंक, रुदन्तं बालकं पथि ॥ ५॥ कृपया कटिमारोप्याभोजयत्तं स्वपाणिना। कोऽसि १ क्वत्योऽसि ? कस्यासीत्यादि पृच्छन् गृहं ययौ ॥६॥ अपत्याभावदीनाय, पत्न्य तं वालमार्पयत् । लाल्यमानस्तयात्मेव, कलाभृत्याप यौवनम् ॥७॥ विषवाक्यगिरा दग्धं, स्ववाक्यरमृतैरिव । निर्वापयन् पुरीलोकं, ख्यातोऽभूदानृपं स हि ॥८॥ राजा तुष्टोऽथ भूपोऽपि, तस्मै विनयसबने । सनाथं विनीत इति, नाम्ना श्रेष्ठिपदं ददौ ॥॥ पदे च पैतृके लब्धे, भूपात्प्रसन्नचेतसः । श्रीपात्रं स विनीतोऽभूत् , पद्मवत् प्रोदिते रवौ ॥१०॥ अथान्यदा कुतोऽप्येत्य, दुर्भिक्षक्षीणसम्पदः । वृद्धो वृद्धा युवा चैकस्तस्य कर्मकृतोऽभवन् ॥ ११ ॥ अथान्यदा बलाच्चम्पामहीपालं जिघृक्षुणा । श्रीहर्षेण सहाचालि, विनीतः कर्मकृद्युतः ॥ १२॥ ॥२६॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy