________________
चन्द्रप्रभस्वामि
प्रथमः परिच्छेदः
चरित्रम्
सत्त्वेऽजापुत्रकथा
रागद्वेषमदैश्वर्याद्यायत्तैः प्राणिभिः संदा । मर्त्यलोककृतं पापमिहागत्यानुभूयते ॥ २३६ ।। स्मारयित्वा स्मारयित्वा, कर्म पूर्वभवार्जितम् । पश्यायं जीवहिंसाकृत , छिद्यते तीक्ष्णहेतिभिः ॥ २४० ॥ अयमसत्यवादित्वादत्युष्ण पाय्यते त्रपु। अदत्तात्तपरद्रव्यः, शूलमारोप्यते ह्यसौ ॥ २४१॥ परस्त्रीलम्पटश्चायमतिध्मातां कृशानुना । ताम्रपश्चालिकामेतां, बलादालिङ्गयते रटन ॥ २४२ ॥ अतिलोभाभिभूतोऽयमयन्त्रितपरिग्रहः । आरूढपापे शीर्षे तु, क्रकचेन विदायते ॥ २४३ ॥ भक्षितोपेक्षितत्वाभ्यां, देवद्रव्यविनाशकः । नानाविधामयं दीनो, नीयते नरकव्यथाम् ॥ २४४॥ अयं परोपतापी च, कुम्भीपाकेन पच्यते । परमर्मप्रवादी च, भिद्यते खण्डशस्त्वसौ ।। २४५ ।। आहन्यमानकीलोऽयं, मुखे मिथ्यापवाददः । भञ्जकः परकार्यस्य, खण्डितोऽपि मिलत्ययम् ॥ २४६॥ दुर्वाक्यभाषकश्चायं, तृषातः पाय्यते ह्यसृक । परमाधार्मिकै यथोपार्जिनदायिभिः ॥ २४७॥ शस्त्राशस्त्रि च युद्धर्थ ते, अन्योन्यं वैरिणाविमौ । उप्रपापः स्वयं शेते, शाल्मलीकण्टकेवयम् ॥ २४ ॥ इत्यादियातनां पश्यन्नरकाणां सुदुस्सहाम् । अन्तरुत्कम्पितोऽत्यथ, भेजे मूर्छामजासुतः॥२४६ ॥ ततश्च व्यन्तरेशेन, जलावायुभिः कृतः । स्वस्थोऽजातनयः कम्पमानश्चित्ते त्वधारयत् ।। २५०॥
आः संसारस्त्याज्यो यस्मिन्नुत्पन्नाः प्राणिनः खलु । तदर्जयन्ति येनेह, कीदृग्दुःखस्य भाजनम् ॥ २५१ ॥ इत्यादिशोचन्नुकम्पी, कृतस्वस्थानगामिधीः । अवोचद् व्यन्तरं यन्मां, मुश्चाशु तत्सरस्तटे ॥ २५२ ॥
॥२१॥
K
॥ २१॥