SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि प्रथमः परिच्छेदः चरित्रम् सत्वेऽजापुत्रकथा देह कोकिलध्वनिपुषं चूतं यदेते तदायत्तान् सम्प्रति मत्त एव मदसूनाच्छेत्तमिच्छन्ति हि ॥ २२५ ॥ सर्वाङ्गसुन्दरीनाम्न्या, तयाहं प्रेषिता ततः । त्वामाह्वातुं महाभाग !, प्रसीदाऽऽगमनेन तत् ॥ २२६॥ तयैवं प्रार्थितो राजा, स्वयं तत्रानुरागवान् । दास्या पुरःस्थया साध, तस्याः सौधं जगाम सः॥ २२७॥ सर्वाङ्गसुन्दरी साथ, समायान्तं विलोक्य तम् । सद्य उल्लाघफुल्लाक्षी, समुत्तस्थौ नृपं प्रति ॥ २२८॥ स्वयं चाकारयत् स्नानभोजनादिक्रियां नृपम् । अतिप्रौढानुरागोत्थप्रेम्णो हि किमु दुष्करम् ॥ २२६ । तया प्रेमजुषा साध, भुङ्क्ते भोगान् महीपतिः । अत्यासक्तश्च नास्मार्षीत् , स्वराज्यसुहृदादिकम् ।। २३०॥ इतश्चाजासुतः सोऽपि, हस्तिनापहृतस्तदा । आनीय मुक्तश्चाधस्ताद् , व्यन्तरावासभूमिषु ॥ २३१ ॥ वराकं मानुपं त्वेतत्को जहार भुवस्तलात् । इत्युक्त्वा तं निनायैको, व्यन्तरो व्यन्तराधिपम् ॥ २३२ ॥ अजापुत्रो नमस्कृत्य, व्यन्तरेशं महर्द्दिकम् । अकथयत् स्ववृत्तान्तं, स तस्मै विहिताञ्जलिः ॥ २३३॥ मा भैषीस्त्वां यथास्थानं, मोक्ष्यामो वयमेव हि । तिष्ठ त्वं रोचते यावदत्र स्ववेश्मनीव भोः । ॥ २३४ ॥ इत्युक्तोऽस्थादजापुत्रस्तत्र तदृद्धिनन्दितः । व्यन्तरेशमथापृच्छत् , किश्चिदप्यस्त्यतोऽप्यधः १ ॥ २३५ ॥ व्यन्तरेशस्ततोऽवोचदितोऽधः सन्ति सप्त भोः ! । नरका ये हि पापस्य, व्ययकारणतां ययुः ॥ २३६ ॥ गाढोत्कण्ठावतो दृग्भ्यां, द्रष्टुं तां नरकस्थितिम् । व्यन्तरेशः प्रभावाट्यस्तस्य मुनि कर न्यधात् ॥ २३७ ।। तत्प्रभावेन्द्रजालेन, तस्य तां पश्यतः स्फुटम् । व्यन्तरेशः स्वयं चख्यौ, पृथग्नारकयातनाम् ॥ २३८ ॥ ॥२०॥ K ॥२०॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy