________________
प्रथमः
चन्द्रप्रमस्वामि चरित्रम्
परिच्छेदः
सत्त्वेऽजापुत्रकथा
मा साहसं मा साहसमिति सम्भ्रमवागसौ । प्रत्यक्षीभूय सा तस्य, हस्तमाधत्त देवता ॥ २१३॥ किमेतद्भवताऽऽरब्धं ?, त्वं किन्न श्रुतवानसि १ । परस्येवात्मनोऽपि स्याद्वधः पापाय भूयसे ॥ २१४॥ अथोवाच नृपः सर्व, जानाम्येतच्छणोमि च । किन्त्वस्मि 'प्राणितं नालं, विना तेनोपकारिणा ॥ २१५॥ तथापि साहसं मैवं, कार्षीस्त्वं शूरकुञ्जर ! । षण्मासानन्तरं सोऽयं, सुहृद् घटयिता तव ॥ २१६ ॥ इत्युदित्वा कणे किश्चित् , कथयित्वा च देवता । औषधीमार्पयत्तस्मै, सप्रभावां प्रसादतः ॥ २१७ ॥ एवमस्त्वित्युदित्वाऽसौ, यावदास्ते कृताञ्जलिः। सखीभिः सार्धमायासीत , काऽप्येका युवतिस्ततः ॥ २१८॥ रूपसम्पूर्णसर्वाङ्गा, दिव्यवस्त्रविभूषणा । सखीहस्तस्थितानल्पपूजोपकरणादिका ॥२१६ ॥ प्रविश्यान्तमहाभक्त्या, पूजयित्वा च देवताम् । किश्चित्साचीकृतेनाऽक्ष्णा, भूपमालोक्य सा ययौ ॥ २२० ॥ देवतां तां नमस्कृत्य, समादायौषधीं च ताम् । बहिरेत्योपविष्टोऽसौ, स्त्रियां तत्राऽनुरागवान् ॥ २२१॥ न केवलं हि रूपेण, नानाऽपि कुब्जिका ततः। तस्या दासी समेत्यैनं, कृताञ्जलिय॑जिज्ञपत् ॥ २२ ॥ यतः प्रभृतिदृष्टोऽसि तयाऽस्माकं वयस्यया। ततः प्रारभ्य तां कामो, निहन्ति निशितैः शरैः॥ २२३ ॥ त्वदर्शनसमुद्भूतानुरागग्रहिला हि सा । स्वप्राणहरणाशङ्का, विभ्रती वक्ति कातरा ॥ २२४॥
उद्गच्छन्तमपि ग्रसस्व शशिनं राहो ! कृतस्तेऽञ्जलिः, यूयं दक्षिणमारुतं फणिकुलान्याचामतामूलतः । १. जीवितु।
॥१६॥