________________
चन्द्रप्रभस्वामि
प्रथमः परिच्छेदः
चरित्रम्
KC
यतः-स्नेहो न कार्यः किल यत्र तत्र, 'स्थानत्रये बध्यत एव मन्थाः।
किन्तूत्तमैः सङ्गतिरप्यभीष्टा, तैलं करुण्याः 'कति नाभ्यनन्दन् ? ॥ २०२॥ ततो विशेषतस्तुष्टः, स्वमात्मानमिवापरम् । पश्यनजासुतं राजा, तत्रोत्सवमकारयत् ॥ २०३ ॥ वर्षाभू इव काले स्वे, पौरास्ते मृतजीविताः । जय जयेत्युद्घोषन्तोऽकायु पुर्यां महोत्सवम् ॥ २०४ ॥ अन्यदा भृभुजा साधं, सोदर्यवदजासुतः। धुन्वन्नाश्चर्यतः शीर्ष, तत्सरो द्रष्टुमाययौ ॥ २०५॥ अथासौ सनृपो यावत् , पश्यंस्तीरेऽस्ति तत्सरः । तावजलचरो हस्ती, प्रादुरासीत् समीपगः ॥ २०६ ॥ उत्फुल्लाक्षमजापुत्रं, भूभुजो निकटे स्थितम् । करेणाच्छिद्य तत्रैव, सोऽमज्जत् सरसि क्षणात् ॥ २०७॥ राजा ससम्भ्रमं कामुं, हृत्वा त्वं यासि रे द्विप ! १ । वदन्नेवासिमाकृष्य, ददौ झम्पामनुद्विपम् ॥ २०८ ।। अग्रे हस्ती स्वयं पश्चादिति गच्छन् महीपतिः। नापश्यद्विपमद्राक्षीत् , किन्त्वेष चण्डिका पुरः ॥ २० ॥ अहो ! क्वाऽगाद्विपः सैष, स येनापहृतः सुहृत् । कैषा भट्टारिका ? यस्याः, प्रासादो हेमनिर्मितः ॥ २१० ॥ किश्चानुपकृतः सोऽभूत्प्राणदानोपकारकः । अहमुपकृतः प्राणैस्तस्य स्यामनृणो यदि ॥ २११॥ निश्चित्यैवं द्विपं हन्तुं, यमाकर्षन्महीपतिः । छेत्तं तेनाऽसिनाऽऽरब्धं, स्वशीर्ष देवतापुरः॥२१२॥
| सत्त्वेऽजापुत्रकथा
॥१८॥
१. यथा दधिमटक्यां स्नेहं कुर्वन् मन्था अधोमध्योर्वस्थानत्रये दवरकेण बद्धयते। २. मल्लिकापुष्पस्य। ३ पुरुषान् । ४. मण्डूकः ।
K
॥१८॥