________________
चन्द्रप्रभ
स्वामि
प्रथम: | परिच्छेदः
चरित्रम्
सत्त्वेजापुत्रकथा
किञ्च ममोपदिष्टस्त्वं, वैश्वानरतरुस्थया । स्वप्नेऽद्याऽऽगत्य मे राजकुलदेवतया तया ॥ १८८ ।। अजापुत्रो नृपस्यैतत्तरश्च्यमपनेष्यति । ततो ज्योतिःप्रपञ्चेन, सा क्षणात्त्वामिहानयत् ॥ १८६ ॥ तत्प्रसीद कृपालुः स्याः, भव त्वं राजकार्यकृत् । स्वयं कृपालवः सन्तः, किं पुनः प्रार्थिताः परैः १ ॥१६॥ एवमभ्यर्थितस्तेन, स्वयं च स कृपापरः । कृत्वकान्तं नृपव्याघ्रायादात्तच्चूर्णमद्भुतम् ॥ १११॥ तेनाशितं च तच्चूर्ण, जातश्च स्वाकृतिनृपः । औषधप्रभावोऽचिन्त्य, इति सत्यमभूत्तदा ॥ ११२ ॥ पूर्वरूपधरं भूपमालोक्य सचिवादयः। हर्षरोमोद्गमा नेमुरानन्दाश्रपयोमुचः॥ १६३ ॥ जय जय प्रजापाल !, कालः प्रत्यर्थिभूभुजाम् । एतावन्ति दिनानि त्वं, नाथ ! प्राप्तोऽसि का दशाम् १ ॥ १६४ ॥ द्वीपीभूतेऽपि त्वय्यत्र, स्वराज्यमधितिष्ठति । प्रत्यर्थिहरिणेभ्योऽपि, क्लीवाः स्मो विभ्यतः स्थिताः ॥१६५॥ दशामेनां त्वयि प्राप्तेऽभ्युदितेऽपि हि भास्वति । लोकानामस्तमेवाभूद् , भवज्जीवितजीविनाम् ॥ १६६ ॥ इत्युक्त्वा मन्त्रिमुख्येषु, विरतेषु महीपतिः। पुनर्जात इवापृच्छत् , स्वप्रजाराज्यकौशलम् ।। १६७ ॥ अजापुत्रमपूर्व च, दृष्ट्वा भ्र संज्ञया नृपः । अप्राक्षीत्सचिवं सोऽपि, नृपायैवं व्यजिज्ञपत् ॥ १९८॥ नाथैप तब तैरश्च्यदुर्दिनस्य प्रभञ्जनः । मन्दिरेऽत्र यथावस्थामकार्षीत् त्वद्वपुस्तरीम् ।। १६६ ॥ अथात्मस्वरूपज्ञानादजापुत्राय साञ्जसम् । प्रवृत्तो दातं हस्त्यश्वस्वर्णादिपारितोषिकम् ॥ २० ॥ अथासाववदद्भूपं, ममैभिः पूर्यते विभो !। प्रीतिरेव सतां याच्या, किमन्यैः काश्चनादिभिः १॥ २०१॥
॥१७॥
K॥१७॥