________________
N
चन्द्रप्रभस्वामि चरित्रम्
प्रथमः परिच्छेदः
सत्वेऽजा
SOO
पुत्रकथा
व्याघ्रीभृते नृपे तस्य, पुत्रे स्वर्गमुपेयुषि । अनाथो नगरीलोकस्तेन शोकवशङ्गतः ॥ १७७ ॥ निशम्यैवमजापुत्रस्तमपृच्छदतुच्छ्धीः । ददौ किं भो ! न कोप्यस्मै, मन्त्रचूर्णौषधादिकम् ? ॥ १७ ॥ खेदात्स प्राह चूर्णादि, दत्तं दत्तं घनघनैः । नाभूत्किमपि केनापि, सर्व पुण्ये हि सस्फुरम् ॥ १७६ ॥ यतः
जानात्येव जनो छुपार्जितुमलं लक्ष्मी प्रभु सेवितु, मित्रं स्नेहयितु गदं शमयितु वक्तु सदस्यद्भुतम् । न्यक्कतुं रिपुमुत्तरीतुमुदधिं किं किं विधातुन वा,
किन्तु व जम्भिणो यदि मतं स्यात्कर्मणो मर्षिणः ॥१८॥ अजापुत्रो विहस्याह, द्वीपिनं मे प्रदर्शय । यदि पुण्यं पुनस्तस्य, स्यात्कीर्तिश्च भवेन्मम ॥११॥ आरक्षकनरः श्रुत्वा, तस्य तन्मुद्रितं वचः । दधौ सम्भावनां चित्ते, स्यादातॊ हि न नास्तिकः॥ १८२ ।। प्रसादं कुरु तत्राथें, चलताच नृपौकसि । ऊचे कृताञ्जलिः सोऽमुं, कार्यार्थी स्यान्मृदुः खलु ॥ १८३॥ गृहीत्वा तमजापुत्रमारक्षकनरो ययौ। यत्रास्ते स नृपद्वीपी, पुच्छमाच्छोटयन् भुवि ॥ १८४ ॥ बहिर्विमुच्य तं तत्र, गत्वाऽमात्यं व्यजिज्ञपत् । मन्च्यादिष्टः पुनः सोऽमुं, गृहीत्वान्तःसमाविशत् ॥ १८५ ॥ वीक्ष्याऽऽयान्तमजापुत्रमभ्युत्तस्थौ कृताञ्जलिः । ससभः सचिवो येन, बालोऽपि कार्यकृद्गुरुः ॥ १८६ ॥ सिंहासने निवेश्यैनमुपविश्याग्रतः स्वयम् । मन्त्री विनयवांस्तस्मै, प्राग्वृत्तान्तमचीकथत् ॥ १७॥
॥१६॥