SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् प्रथम: परिच्छेदः ॥२३७॥ अजापुत्रक. थान्तर्गता शकुन्तलाकथा। तस्मात्कर्मपरीणामवशाद्देशान्तरं भवान् । एकाकी क्षुत्पिपासात्तों, बभ्राम कर्मसञ्चयात् ॥ २२८ ॥ इत्याकर्ण्य गुरूणां स, वाचमाचान्तकल्मषाम् । जग्राहाऽभिग्रहं राजा, गुरुभ्यः पुरतः क्षमी ॥ २२६ ॥ सम्यग् स्वरूपमज्ञात्वा, न मया कमपि प्रति । रोषितव्यमिति प्रोच्चैर्वाचं प्रोदुच्चरन्नृपः ।। २३०॥ पुनः प्रणम्य पप्रच्छ, स गुरून विहिताञ्जलिः । ममात्मा लप्स्यते मोक्षं न वेति वदत प्रभो!॥ २३१ ।। ज्ञात्वा ज्ञानेन तेप्यूचुरजापुत्र ! महीपते ! । चन्द्रप्रभजिनेन्द्रस्य, तीर्थे त्वं सेत्स्यसि ध्रुवम् ॥ २३२॥ स च चन्द्रप्रभस्वामी, पुर्यामत्र भविष्यति । इक्ष्वाकुवंशसम्भूतो, राजा तीर्थकृदष्टमः ॥ २३३ ॥ खमेतस्मिन् भवे स्वायुः, प्रपाल्य स्वर्गमेष्यसि । भूत्वा मर्त्यः पुनर्भावी, तस्याद्यगणभृद्भवान् ॥ २३४ ॥ श्रुत्वेति मुमुदे राजा, तथेति गुरुजल्पितम् । अभिस्तुत्य सुभक्त्या च, प्रणम्य विससर्जे तान् ॥ २३५॥ ततः परं बभूवैष, धर्मकर्मरतिः सदा । चकार तीर्थयात्राभिर्जिनधर्मप्रभावनाम् ।। २३६ ॥ रत्नस्वर्णमयान्याशु, स बिम्बान्यहतां मुदा । प्रत्यष्ठापयदाचारविदुरो विधिपूर्वकम् ॥ २३७ ॥ यस्मादज्ञानता क्वापि, संसारेऽत्र न जायते । प्राणिनां तच्छु तं तेन, चक्रेऽभ्यस्तं स्वनामवत् ॥ २३ ॥ दयापुरस्सरं धर्म, श्रद्धां सम्यक्त्वलालिताम् । पूजां जिनेन्द्रपादाब्जसपर्यापक्षपातिनीम् ॥ २३६॥ भक्तिं सुविधिसाधुभ्योऽनुरागं जिनशासने । साधम्मिकेभ्यो वात्सल्यं, पोषधादौ व्रतक्रियाम् ॥२४॥ आत्मनश्च गृहस्थानामन्येषां चाभिनन्दयन् । अजापुत्रः स राजर्षी-भृय राज्यं करोत्यथ ॥ २४१ ।। ॥२३७॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy