________________
चन्द्रप्रमस्वामि चरित्रम्
प्रथमः परिच्छेदः
॥२३६॥
अजापुत्रकथान्तर्गताशकुन्तलाकथा।
अन्यदीयो मदीयो वा, तस्या गर्भोऽभवत् किल । तदेतज्ज्ञायते सम्यग् , न विना ज्ञानिना खलु ॥ २१४ ॥ इति चिन्तयन्तं मापमासीनं संसदि स्वयम् । आगत्योद्यानपालस्तु, बद्धाञ्जलिव्य॑जिज्ञपत् ॥ २१५ ॥ राजन् ! ब्रह्माण्डभाण्डान्तर्वत्तिवस्तुनिवेदनात् । आराध्यः कानने कश्चिदेको ज्ञानी समाययौ ॥ २१६॥ राजाऽथ गर्भसन्देहविच्छेदायाशु जग्मिवान् । यथाविधि नमस्कृत्य, शुद्धभूमावुपाविशत् ॥ २१७ ॥ चके ज्ञानी च संसारदावानलघनावलीम् । सद्धर्मदेशनां मोहमातङ्गच्छेदसिंहिकाम् ।। २१८ ॥ विज्ञायावसरं राजा, सन्देहं मनसि व्यधात् । ज्ञानी चाख्यत् सती राजन् ! मन्त्रिपुत्री तव प्रिया ॥ २१६ ।। ज्ञानिवाचं निशम्येति, राजा चित्तेऽकरोदिति । तां सती धिगहं मूढः, पराभूवं निरागसम् ॥ २२०॥ अन्यच्चाद्यापि मनोऽस्मि, विषयाशुचिकर्दमे । सङ्ग्रह्णामि नवनवां, विष्ठाभस्त्रां नितम्बिनीम् ॥ २२१ ॥ न पुनर्भवकुक्षेत्रे, बहुजन्मालवालके । पापानां बद्धमूलानां, छेदिनी शमसम्पदम् ॥ २२२ ॥ इति स्वेनैव वैराग्यसूर्यध्वस्ततमोगुणः । लक्ष्मीबुद्धिनृपस्त्यक्त्वा, राज्यं व्रतमुपाददे ॥ २२३ ॥ परीषहचमृधाटी, सहमानः सुचेतसा । मुनिः सोऽपालयत्सम्यग् , दीक्षां शुद्धा जिनेशितुः ।। २२४ ॥ स मृत्वा चायुषः प्रान्ते, देवोऽभूदच्युते ततः । सम्पूर्णायुस्ततश्च्युवा, जातस्त्वमसि भूपते ! ॥ २२५ ॥ त्वया पूर्वभवे दानं, सम्यग् श्रद्धानपूर्वकम् । तपःसंयमपात्रेभ्यो, ददे तेनासि राज्यभाक् ॥ २२६ ।। या च सा भवता साध्वी, भार्या सतीत्वशालिनी । जातगर्भा निष्ठुरेण, निर्वासितात्मनो गृहात् ॥ २२७ ।
॥२३६॥