________________
प्रथमः परिच्छेदः
चन्द्रप्रमस्वामि चरित्रम् ॥२३॥
अजापुत्रक थान्तर्गता शकुन्तला. कथा।
कम्पमानवपुः प्राह, दासो नाथ ! पुरावहिः । तडागे जालपतितं, दृष्टवतदानयं त्विह ॥२०॥ तस्येति वचनं श्रुत्वा, सम्यग्विज्ञाय चेतसि । नात्रापराधोऽस्यास्तीति, बन्धादमोचयन्नृपः ॥ २०१॥ ततः शकुन्तलासङ्गवियोगादरतिं गतः। सर्वत्रापीक्षयामास, परं न प्राप तां प्रियाम् ॥ २०२॥ कालेन तत्र कण्वाश्रमे भूपतिर्गतः । युद्धयमानं मृगेन्द्रेण, द्रक्ष्यति स्वसुतं प्रिंयम् ॥ २०३॥ ज्ञास्यत्येष मदीयोऽयं, सुत ईदृग् पराक्रमः। ततो दृष्ट्वा प्रियां तत्र, परमा मुदमेष्यति ॥ २०४॥ इति दुष्यन्तराजस्य, विस्मृताऽपि शकुन्तला । मुद्राभिज्ञानदृष्टान्ताद्भूयोऽभूत प्रेमभाजनम् ॥ २०५॥ तथेयं त्वत्सखी किश्चित्सङ्कतं वचनं च वा । निवेद्य वेद्यचतुरा, पतिं प्रत्याययेन किम् ? ॥ २०६॥ कुब्जिकाह महाभाग !, प्राञ्जलेयं सखी हि नौ । न वेत्ति वाच्यकर्तव्यज्ञातव्यानि पतिं प्रति ॥ २०७॥ इत्यन्तरेऽभ्युदितोऽकर्को, जगतां पश्यतोहरः । अन्धकारपटं व्योम्नो, यो जहार करै निजैः॥२०॥ ततश्च बुद्धिसन्धानस्तस्य भूपस्य मन्त्रिराट् । रुदत्याश्च स्त्रियस्तस्याः, पिता सोऽत्र समाययौ ॥ २०१॥ मदीयोऽयं महामन्त्री, बुद्धिसन्धान इत्यसौ । राजा तमुपलक्ष्येति, दूरीभूय ययौ गृहान् ॥ २१०॥ अचिन्तयच्च यन्मन्त्री, समागाचत्र कानने । तन्मन्ये रुदती स्त्रीयं, तत्पुत्री स्यात्सखीवृता ॥ २११॥ या मया परिणीताऽऽसीद , से वैषा न परा भवेत् । गर्भसन्देहकष्टेन, मया निर्वासिता गृहात् ॥ २१२॥ तत्किमेषा बहिर्मत्तुं मुपागातत्पिता पुनः । प्रतिपाद्य गृहं नेता, स्वां पुत्रीं गुर्विणीमपि ॥ २१३ ।।
॥२३॥