SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि प्रथमा परिच्छेदः चरित्रम् ॥२३४॥ अजापुत्रकथान्तर्गता शकुन्तलाकथा । अहो। आश्चर्यमाश्चर्यमिति वाचि समाजने। ययावुत्थाय राजाऽथान्यत्र सञ्जातविस्मयः ॥ १८६ ॥ अन्यदा धीवरः कोऽपि, राज्ञस्तदङ्गुलीयकम् । विक्रतु स्वर्णवणिजा, दर्शयामास दूरतः ॥१८७ ॥ स्वेनोत्थाय वणिक् तस्य, हस्तादादाय तत्तदा । वीक्ष्यमाणोऽक्षराण्यत्र, दुष्यन्तस्येत्यवेक्ष्यत ॥१८८॥ राज्ञोऽङ्गुलीयकं ह्य तदिति व्याघुट्य सोऽर्पयन् । ददृशे नगराध्यक्षः, किमेतदिति वादिभिः ॥ १८६ । पुराध्यक्षा वणिग्यस्तात्तदादायोपलक्ष्य च । महीशमुद्रिकाचौरस्त्वमित्येनमवन्धयन् ॥ ११० ॥ क्षिप्त्वा चतुष्पथे बद्धं, तं राज्ञे ते व्यजिज्ञपन । अमुञ्चंश्च पुरो रत्नरम्यं तदङ्गुलीयकम् ॥ १११॥ दृष्ट्वा तदुपलक्ष्याऽथ, राजाऽस्मार्षीदिदं किल । यन्मया मुनिपुध्य हि, सकेतायापित पुरा ॥ ११२॥ कथं च प्रियाया हस्ताच्च्युत्वा कैवर्तमासदत १ । विनाऽनेन मया नोपलक्षिता हा ! शकुन्तला ॥ १३॥ क्क तानि प्रथमप्रेमचाटुवाक्यानि तां प्रति १ । शत्रु प्रत्यप्यवाच्यानि, क्व चेदानी वचांसि मे १॥ १६४ ॥ मया तदुक्तं येन स्याद्भूयो दशनमेव न । अत एव वचः शान्तं, वक्तव्यमिति शत्रुषु ॥ १६५ ॥ धिग्मां दुर्जनमज्ञानं, कृतघ्नं निवपं शठम् । स्वीकृत्य चाटुभिः कान्तां, दुर्वाक्योऽधुनाऽत्यजत् ॥ १६६ ॥ पश्यन्ती मयि तत्प्रेम, मनसिकृत्य मामिह । आगतापि प्रिया हा ! धिक् , पराभूता मया कियत् ॥ १७ ॥ मम पराभवेनैषा, प्रविवेश महीतलम् । दिव्येन ज्योतिषा तेन, सा भविष्यति रक्षिता ॥ १८ ॥ ततः कैवर्तमाकार्य, दुष्यन्तो दुःखमीयिवान् । पप्रच्छ मुद्रिकारत्नशुद्धिं क्वेदं त्वयेक्षितम् १ ॥ १६ ॥ ॥२३४॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy