SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ N चन्द्रप्रभस्वामि चरित्रम् प्रथमः परिच्छेद ॥२३२॥ अजापुत्रकन थान्तर्गताशकुन्तला. कथा। इति चिन्तयन्त्यां तस्यामृचुस्ते मन्त्रिणस्ततः । शुभे! किमस्त्यभिज्ञानं, सम्बन्धप्रत्ययाय नः॥१८॥ शकुन्तलाह राजैव, प्रत्ययः किं परेण मे १ । किं न जानाति भूपोऽयं १, योऽधुना वक्त्यनीदृशम् ॥ १५ ॥ राजाऽऽह मुग्धे ! नवाहमद्राक्षं त्यां कदापि हि । सम्बन्धसन्धिबन्धाय, ततो मत्प्रत्ययः कथम् ॥ १६० ॥ तापसः प्राह मुग्धोऽयमारण्यकाङ्गनाजनः। सतीत्वाजुभावाच्च, नानृतं वक्ति भूपते ! ॥ १६१॥ राजाह न मुने ! वेत्सि, स्त्रीणां चरितमद्भुतम् । मायाकौटिल्यपाण्डित्यात , तत्किं यत् कुर्वते न ताः ॥ १६२ ॥ सत्यं वेत्स्यनुभूतत्वात् , स्त्रीवृत्तं किं तु तन्मयि । चेद्भवेन्नृप ! नेदृक् स्यादुक्तिप्रत्युक्तिविप्लवः ।। १६३ ॥ इत्युक्त्वा सा रुरोदोच्चै, रोदयन्ती सतां मनः । तथाप्यकरुणो राजा, नास्मान्निाभ्यमन्यत ॥ १६४ ॥ धर्माधिकारिणः प्रोचुमुग्धे ! किं रुदितेन ते ? । कथय त्वमभिज्ञानं, येन प्रत्येति भूपतिः ।। १६५ ।। शकुन्तलाह वीक्ष्येऽहं, सत्यमस्य महीपतेः। अभिज्ञानाक्षरपत्रमन्तव्यमिति सर्वगम् ।। १६६ ॥ सविमर्श नृपो दध्यौ, सावष्टम्भं वदत्यसौ । अभिज्ञानापैणादेव, स्वीकृता किमियं भवेत् ? ॥ १६७॥ अस्तु पश्याम्यभिज्ञानं, विवादघ्नं स्फुटस्मृति । इति स्वेनैव राजा तामभिज्ञानमवादयत् ।। १६८ ॥ तापसेन ततः प्रोक्ता, नीतिमाह महीपतिः । पुत्रि ! पूरय सङ्केतमिति साथ शकुन्तला ॥ १६६ ॥ किलागुलीयकं राज्ञस्तथैवास्ति ममागुलौ । इति स्मृत्वा नृपं वीक्ष्यादर्शयत् साङ्गुली निजाम् ॥ १७० ।। किमिदं दर्शयत्येषेत्यादरात् सवसंसदि । पश्यन्त्यां सा स्वयं शून्यां, ततोऽद्राक्षीनिजाङ्गुलीम् ॥ १७१ ॥ ॥२३२॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy