SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि चरित्रम् प्रथमः |परिच्छेदः ॥२३॥ अजापुत्रकथान्तर्गता शकुन्तलाकथा। मुनिः प्राह क्रुधा ताम्रस्त्वां विद्रो वंयमुत्तमम् । वर्णाश्रमगुरु वर्णसङ्करोपमवापहम् ॥१४४ ॥ न जानीमः स्वयं नित्यस्त्रीव्यसनादुराशयम् । अविचारज्ञमासक्तमन्याये विरतं नयात् ।। १४५ ॥ अत एव तवान्यायात् , प्रारम्भा व्यवसायिनाम् । वृक्षा बाह्याश्रमाणां च, न फलन्ति यथा पुरा ॥१४६ ।। आस्तामन्यत्किलान्यायस्थानं किं स्यादिदं क्वचित् ? । कुलीनानां प्रशान्तानां, स्त्रीणां स्वीकारनिहवः॥१४७ ॥ मा त्वं वृथा कृथाः कोपमस्मासु सत्यवादिषु । न सोढारो वयं कोपमपवादपदस्य ते ॥ १४८॥ इत्युक्ते भूभुजा कुद्धः, तापसः प्राह साहसात् । अरे ! दुष्यन्त ! वेत्सि त्वमपवादं किलाधुना ? ॥ १४६ ॥ न तदा ज्ञातवान किं त्वं, कुलस्त्रीग्रहमीदृशम् १ । पूर्व या स्त्रीकृता स्नेहात , सा हठात् स्वीकरिष्यते ॥१५॥ धर्माधिकरणामात्याः, प्रोचुराचारकोविदाः। राजन् ! मा सहसैवैना, मुनिपुत्री निराकृथाः॥ १५१॥ भवेत्सा विस्मृता कालादानाय्यात्रोपलक्षय । पृच्छाभिज्ञानमप्येना, विवाहस्मारकं किल ॥ १५२ ।। ओमित्युक्ते नृपेणाथ, मुनिरेनामजूहवत् । साथै वृद्धतपस्विन्या, प्रविवेश शकुन्तला ॥ १५३॥ नीरङ्गीच्छन्नवक्त्राग्रा, लज्जाच्छादितवक्तृताम् । समीक्ष्य विस्मृतिग्रस्तो, राजा तां द्राग् निराकरोत् ॥१५४ ॥ शकुन्तला ततो दध्यौ, का गतिमऽधुना हहा!! १। रहस्यूढास्मि येनाहमुक्तिस्तस्येयमीदृशी ॥ १५५॥ . न मामन्यायिनी मत्वा, नेष्यन्ति मुनयो गृहान् । नास्ति मे स्थानमन्यत्र, किं करोमि ? क यामि च १ ॥१५६॥ राजपदि चैतस्यां, नैवाहं वक्तुमुत्सहे । न विना वचनान्मन्ये, प्रत्येष्यति महीपतिः॥ १७ ॥ ॥२३॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy