________________
चन्द्रप्रभस्वामि
चरित्रम्
123011
ततः प्राह तपस्व्येकस्त्वया ह्याश्रममीयुषा । गान्धर्वेण विवाहेन, परिणीता शकुन्तला ॥ १३० ॥ अन्तर्वत्नी बभूवैषा, ततः कण्वषिणाऽधुना । प्रेषिताऽस्ति गृहद्वारे, गृहाणैनां स्वगेहिनीम् ॥ १३१ ॥ तत्र प्रस्तूयमानायास्तस्याः स्याद्विघ्नसम्भवः । पुण्यवद्गर्भधारिण्यः, स्त्रियो रच्या हि यत्नतः ॥ १३२ ॥ विस्मयातङ्कसस्फुल्लपक्ष्मव्याप्त त्रिलोचनः । औत्सुक्यात्प्राह भूपालः, का सा ननु शकुन्तला १ ॥ १३३ ॥ न कदापि मया काचित्, परिणीता मुनेः सुता । कतरा गर्भवार्ता तु यत्तस्या दर्शनं न मे ॥ १३४ ॥ अविचार्यैव युष्माभिरादिष्टमेतदीदृशम् । वाश्रमे सा मुनेः पुत्री, क्वाभ्यमित्रयस्त्वहं सदा ॥ १३५ ॥ मुनिराह सदा राजन्!, व्यापारव्याकुलोऽसि यत् । स्मरति तत् कियत्तेऽत्र, मा त्वेनां नृप ! विस्मर ॥ १३६ ॥ शरणं यत्त्वमेवास्या, नान्यः स्थानमतः परम् । त्वत्तः सञ्जातगर्भाया, निवासः कोऽस्मदाश्रमे १ ॥ १३७ ॥ मुने ! वेत्सि कथं गर्भो, ममायमिति भूभुजा । प्रोक्ते स तापसः क्रुद्धः प्रोचे वदति गर्भिणी ॥ १३८ ॥ स्मारं स्मारं स्वयं राजन् ! नादत्स्व मुनिपुत्रिकाम् । मान्यस्त्रीवद्विडम्ब्यैनामपि त्यक्तु मतिं कृथाः १३६ ॥ सदा स्त्रीव्यसनान्धानां मतिः स्मृतिपराङ्मुखी । परं त्वमसि विज्ञानामग्रणीनतिकारकः ॥ १४० ॥ अवश्यं नैव कर्त्ताऽस्मि, कदाप्येतस्य कर्मणः । इति निश्चित्य चित्तेन, सावष्टम्भं नृपोऽवदत् ॥ १४१ ॥ ऋषे ! सम्यन विज्ञाय, समायातोऽसि मत्पुरे । सोऽन्यः कोऽपि गवेष्यस्ते यः स्वीकृत्य स्त्रियं त्यजेत् ॥ नदृष्टा नापि च प्रोक्ता, न सङ्गेन विडम्बिता । इत्यर्थे निश्चयं मत्वा, भूयो याहि त्वमाश्रमम् ॥
१४२ ॥ १४३ ॥
प्रथमः
परिच्छेदः
अजापुत्रकथान्तर्गता
शकुन्तला
कथा ।
॥२३०॥