SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि प्रथम: परिच्छेदः चरित्रम् ॥२२६॥ वर्द्धयित्रीं ततो वृद्धा, तापसी तापसीयुताम् । मातृस्नेहात् प्रणम्यैषा, गृह्णाति स्म तदाशिषम् ॥ ११६ ॥ आलिङ्गय च सखीवर्गमश्रुनिमग्नतारका । चिरैकस्थानापराध, क्षमयित्वा न्यवर्तयत् ॥ ११७ ॥ वीक्ष्यमाणा मुहुः पश्चात् , स्वस्थानं ममतावशात् । सिञ्चन्ती साश्रुभिर्मार्ग चचालाथ शकुन्तला ॥ ११८॥ तापस्या मुनिभित्रियान्ती तद्भत पत्तनम् । ददर्श दक्षिणेनषा, स्वच्छाम्बुविपुलं सरः॥ ११ ॥ मार्गसञ्चलनात् खिनसर्वाङ्गी जलवाञ्छया । सापत्न्यं स्वास्यलक्ष्म्याब्जश्रियः कतु ययौ सरः॥१२०॥ पादप्रक्षालनव्याजाददती सा जलाञ्जलिम् । तच्छमाय ततो भूत्वा, शुचिः किश्चित्पयः पपौ ॥ १२१॥ पादौ प्रक्षालयन्त्याश्च, तस्यास्तदङ्गुलीयकम् । श्लथत्वादङ्गुलेः पार्थात , पपातान्तजेलं क्वचित् ॥१२२ ।। शकुन्तला त्वनभ्यासान्नाज्ञासीत्पतदम्बुनि । तत्किन्त्वस्मारयित्वाऽपि, चचाल पुरतोऽध्वनि ॥ १२३॥ प्राप्ता च क्रमशः सैषा, स्वभत्तु नगरादहिः । विश्रम्यात्र क्षणं तन्वी, तत्पुरं प्रविवेश च ॥१२४ ॥ आगत्याभिमुखीवाथ, किं वाच्यः पतिरित्यसौ । लज्जास्नेहादिवाश्लिष्यत्प्रविशन्ती शकुन्तलाम् ॥ १२५ ॥ तापसाश्च पुरो भूत्वा, फलहस्ता महीपतिम् । ददृशुः स्वर्गतः शक्रमवतीर्णमिवावनौ ॥ १२६ ॥ आसन्नीभूय राज्ञे ते, फलोपायनमापयन् । उद्ध्वीकृत्य भुजं सव्यं, सम्भूयवाशिष ददुः॥ १२७॥ अचीकथंश्च कण्वराशि शुभकारिणीम् । राजन् ! वाचिकमप्यस्ति, गुरोस्त्वयीति तेऽवदन् ॥ १२८॥ किमादिशन्ति गुरवोऽनुग्रहाय ममाधुना । एषोऽस्मि साधुशुश्रुषुस्तबूत गुरुवाचिकम् ॥ १२६ ॥ अजापुत्रकथान्तर्गता शकुन्तलाकथा। | ॥२२६॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy