SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रम प्रथम: परिच्छेदः स्वामि चरित्रम् ॥२२७॥ | अजापुत्रक. थान्तर्गता शकुन्तलाकथा। आसन्नामृचिवानिन्द्रः, सम्भावनेन मेनकाम् । विश्वामित्रमुनेः क्षोममाधातु त्वमसि क्षमा ॥८८॥ मेनका वाह सावज्ञं, कियदेतन्मम प्रभो!१।मम कटाक्षविक्षेपैः, स्मरातः को भवेनहि ॥८९॥ क्षोभप्रतिभुवं रूपमादायाहमिहैव हि । तत्तपोग्रन्थिमुद्नथ्य, लयसर्वस्वमाहरेः॥१०॥ इत्युक्त्वा सा ततः स्वर्गादुत्ततार भुवस्तले । यत्रास्ते स मुनिस्तत्र, गत्वाधारक्षोभडम्बरम् ॥ ११ ॥ प्रवेश्य वचनं तत्त्वघातकं मुनिकर्णयोः । वशीकृत्य मनोऽक्षाणि, यन्त्रणादुदमोचयत् ॥१२॥ तानि चोच्छृङ्खलीभावं, कालादासाद्य दुर्ग्रहात् । स्वस्वग्राह्यरसास्वादापणोत्सुक्यमुपाययुः ॥६३ ॥ दृशाऽदयंत तद्रपं, कर्णेनश्राव्यताथ गीः । घ्राणेनाप्यंत सौरभ्यं, विश्वामित्रात्मनो मुहुः ॥४॥ तद्पादिप्रहृष्टस्तदात्मा त्यक्त्वात्मवीक्षणम् । लोल्यात्तां प्रति वक्रोक्ति, वक्तु जिह्वामथादिशत् ॥१५॥ अमृतश्राविणी वाणी, मुनेरेतां हि मेनकाम् । सन्तोष्य स्पर्शनाक्षस्य, चक्र सौख्यं रतात्किल ॥६६॥ यथाप्रतिज्ञाते पूर्णे, क्रमाद्गर्भ हि मेनका । बभार सुषुवे चाथ, सुखादेनां शकुन्तलाम् ॥ १७॥ जातमात्रामिमां त्यक्त्वा, स्वययौ सा च मेनका । कण्वेन मुनिना प्राप्ता, पुत्री चेयं व्यवद्धयत ॥ १८॥ तदेषा मानिता पुत्री, मुनेरस्यातिवल्लभा । तिर्यश्चोऽपि मुनीनां यत् , संरक्ष्याः किं पुनः स्त्रियः१॥ ६ ॥ इत्युक्त्वा विरता साथ, राजा ज्ञात्वा तदन्वयम् । निश्चित्योपयन्तु योग्यां, शकुन्तला व्यलोकयत् ॥ १० ॥ मिथः सम्मिलनादृष्टयोर्मनसी मिलिते तयोः । तज्जप्रेमद्विजेनाथ, तत्पाणी मिलितो मिथः ॥१०१॥ ॥२२७॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy