________________
प्रथमः परिच्छेदः
चन्द्रप्रभस्वामि चरित्रम् ॥२२६॥
अजापुत्रक थान्तर्गता शकुन्तलाकथा।
इतस्ततः परिभ्राम्य भलिरेष कृतभ्रमः । दृशोः पद्मधिया हास्याद्दत्तकुन्दधियाऽधरे ॥ ७५॥ . पाणिना ताडयमानोऽपि, समुत्थायाविशत् पुनः । भृङ्गः शकुन्तलाङ्गानि प्रेयानिव मुदाऽस्पृशत् ॥ ७६ ॥ प्रशशंस नृपो भृङ्ग, शकुन्तलाङ्गसङ्गमात् । तत्त्वालोचनमूढं स्वं, निनिन्द मदनातुरः ।। ७७ ॥ ततः शकुन्तला मौग्ध्याल्लताकुब्जे प्रविश्य सा। दृष्टा भूपं सानुरागा, वक्रदृग्भ्यां व्यलोकत ॥ ७८ ॥ पुनर्निवृत्य साचख्यौ, सखीभ्यां जातवेपथुः । सख्यौ तत्रैत्य दृष्ट्वा तावेतौ जहसतुर्मिथः ॥ ७९ ॥ राजा च तत्कटाक्षेण, प्रहतः प्राणहारिणा । दुस्सहं दाहमासाद्य, सद्यो हृयमथापठत् ॥२०॥ दृशा दाहाम्नायं नियतमनुभूय स्वयमसौ, गिरीशोपाध्यायादिषु निवहमाद्यं परिहरन् । सुमध्यामध्यास्य श्रमभुवमिवानङ्गसुभटः, कटाक्षाग्नेयास्त्राण्यभिकिरति यूनश्च दहति ॥८१ ॥ एषा तपस्विपुत्रीति, सन्देहेन मनोऽत्र मे । विकारीति च नैश्चित्यान्नृपोईवेशसं ययौ ॥ २ ॥ मित्रेण तत्सखों राजाऽप्यपृच्छदेतदन्वयम् । चख्यौ प्रियंवदा राज्ञो, वयस्याय यथातथम् ।। ३ ।। विश्वामित्रमुनिः पूर्व, तपस्यन् दुष्करं तपः । ददृशे क्वापि शक्रण, विस्मयापन्नचेतसा ॥८४ ॥ अचिन्तयच्च स हरिय॑त्स्वेन तपसान्वयम् । मामुत्थाप्य बलात् स्वर्गसाम्राज्यं स ग्रहीष्यति ॥ ८५ ॥ परिपूर्ण तपस्तादृग् , यावदेष करोति न । तावत्सोपक्रम कश्चित्तपोविघ्ने दधाम्यहम् ॥ ८६ ॥ अमोघं कामबाणं हि, कामिन्यो देहिनं प्रति । ता एव तन्मनःक्षोभसंरम्भायादिशाम्यहम् ।। ८७ ।।
| ॥२२६॥