________________
चन्द्रप्रभस्वामि चरित्रम्
प्रथमः परिच्छेदः
॥२२॥
ततः प्रियङ्करी क्तं तपस्यताम् । यदज्ञानप्रमुग्धाना, शापदानं निरागसाम् ॥ ६१॥ शापे चानुग्रहे चैव, सम्भाव्यते तपःक्षयः । तपाक्षये व्रती न स्यात्को नमस्येद्वतिब्रुवम् ॥ ६२॥ कृतापराधेऽपि जने, क्षान्तिः शस्या तपस्विनाम् । व्रतजीवितमेषां यत्तल्लोपे लोपितं व्रतम् ॥ ६३॥ विना क्षान्ति न प्रमाणं, ज्ञानध्यानतपास्यपि । विनाप्येतैः क्षमा ह्यका, वेत्रिणी तत्त्वदर्शने ॥६४॥ प्रभुत्वं सम्पदा सार्धमारोग्यं सौस्थ्यलीलया। गार्हस्थ्यं पुत्रसन्तत्या, मुहिकं तपसः फलम् ॥६५॥ धातुसंशोषणादन्तःकरणेन्द्रिययन्त्रणात् । दृष्ट्वाऽऽत्मानं शिवं गच्छेदामुष्मिकं तपःफलम् ॥६६॥ आमुष्मिकं परित्यज्य, स मुनिस्तपसः फलम् । शापानुग्रहतोषेषु, मुधा व्ययति सत्तपः॥ ६॥ इत्युक्त्वा तत्सखीद्वन्द्वं, जगामेतस्ततो भ्रमत् । राजा च तत्र सुष्वाप, स्फाटिकाश्मशिलातले ॥ ६ ॥ अथ शकुन्तला ताभ्यां, सखीभ्यां सह जग्मुषीम् । दूरतस्तरुसेकाय, महीनाथो ददर्श ताम् ॥ ६॥ जातानुरागस्तस्यां च, चिन्तयामास भूपतिः । अहो ! चित्रं मनो मेऽस्यां, तपस्विन्यां किमुत्सुकम् ? ॥ ७॥ अथवा यन्मनो मेऽस्या, समभूदभिलाषुकम् । तदियं खलु योग्या स्यात् , क्षत्रियाणां परिग्रहे ॥ ७१ ॥ दृश्यतेऽस्याश्च वेषोऽयं, तपस्विजनतोचितः। लिङ्गिन्यां च सतां नेष्टा, प्रवृत्तिर्वचसामिति । ७२ ॥ इति चिन्तयति क्षमापे, सिञ्चन्ती परितस्तरून् । सागादुपनृपस्थानलतावृक्षान् सखीयुता ।। ७३ ।। अथैकस्मिन् लतामूले, पयस्कुम्भो व्यलोट्यत । तन्निर्घातलताकम्पाभृङ्गो द्रागुदडीयत ॥ ७४ ॥
अजापुत्रकथान्तर्गता शकुन्तलाकथा।
|॥२२५॥